________________
३ उयोतः] . विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रमेदाश्रयतः स्थिता भेदवती हि सा ॥७॥ __क्तृवाच्यमतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं संघटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् । संदानितकविशेषककालापककुलकानि पर्यायबन्धः परिकथा सकलकथा खण्डकथा सर्गबन्धोऽभिनेयार्थमाख्यायिका कथेत्येवमादयः । तदाश्रयेणापि संघटना विशेषवती भवति । तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दर्शितमेव । अन्यत्र कामचारः । मुक्तकेषु हि
इति तात्पर्यम् । वियामकान्तरमप्यस्तीत्साह-विषयाश्रयमिति । विषयशब्देन संघातविशेष उक्तः । यथा हि सेनाद्यात्मकसंघातनिवेशी पुरुषः कातरादिभिरपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि संघातविशेषात्मकसदानितकादिमध्यनिविष्टं तदौचित्येन वर्तते । मुक्तकं तु विषयशब्देन यदुक्तं तत्संघाताभावे तत्वातत्र्यमात्रं प्रदर्शयितुं खप्रतिष्ठितमाकाशमिवेति । अपिशब्देनेदमाह-सत्यपि वक्तृवाच्योचित्ये विषयौचित्यं केवलं तारतम्यमेदमात्रव्यावृत्तम् । न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति । मुक्तकमिति । मुकमन्येन नालिङ्गितम् । तस्य संज्ञायां कन् । तेन वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्तिमुक्तकमित्युच्यते । मुक्तकस्यैव विशेषणं संस्कृतेत्यादि । क्रममाविलात्तथैव निर्देशः । द्वाभ्यां क्रियासमाप्तौ संदा. नितकम् । त्रिमिर्विशेषकम् । चतुर्मिः कलापकम् । पञ्चप्रभृतिभिः कुलकम् । इति क्रियासमाप्तिकृता मिद इति द्वन्द्वेन निर्दिष्टाः । अवान्तरक्रियासमाप्तावपि वसन्तवर्णनाघेवर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः । एकं च धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणा• गन्तवेत्तान्तवर्णनप्रकारा परिकथा । एकदेशवर्णना खण्डकथा । समस्त्रफलान्तेतिवृत्तवर्णबा सकलकथा । द्वयोरपि प्राकृतप्रसिद्धखाद्वन्द्वेन निर्देशः । पूर्वेषां तु मुक्तकादीनां भाषायामनियमः । महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव । भमिनेयार्थ दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् । आख्यायिकोच्छ्वासादिना वनापरवादिना च युक्ता । कथा तद्विरहिता । उभयोरपि गद्यबन्धखरूपतया द्वन्देन निर्देशः । आदिग्रहणाचम्पूः। यथाह दण्डी-'गद्यपद्यमयी चम्पूः' इति । अन्यत्रेति । रसबन्धाभिनिवेशे । ननु मुक्तके विभावादिसंघटना कथं येन तदायत्तो रसः स्यादित्याशमाह-मुककेष्विति ।
१. विषयाश्रयगतमनौचित्यं' ग. २. 'अन्यत्र तु' क-ख. - १. 'क्रमप्रभावात्' क-ख. २. 'निर्देशः' क-ख. ३. 'वृत्तान्तप्रधाना' क-ख. ४. 'प्रसर ग.