________________
( २८९ )
मन्याण्णिन् । ५ । १ । ११६ । कर्मणः परात् मन्यतेर्णिन् प्रत्ययो भवति । पण्डितमानी
बन्धोः ।
कर्तुः खश् । ५ । १ । ११७ । प्रत्ययार्थरूपात् कर्तृरूपात् कर्मणः परात् मन्यतेः खश् प्र त्ययो भवति । आत्मानं पण्डितं मन्यते इति । खित्यनव्ययारुषो मोन्तो ह्रस्वश्च । ३ । २ । १११ ।
स्वरान्तस्याव्ययभिन्नस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे परे मोsन्तो यथासम्भवं ह्रस्वश्च । पण्डितम्मन्यः । ज्ञम्मन्यः । अरुन्तुदव 'कर्मणः परादेः खश् वाच्यः' जनमेजयो नाम राजा ।
शुनीस्तनमुअकूलास्य पुष्पात् दधेः । ५ । १ । ११९ ।
एभ्यः कर्मभ्यः दूधेः कर्तरि खश् प्रत्ययो भवति । शुनिन्धयः ॥ स्तनन्धयः । मुञ्जन्धयः कलन्धयः । आस्यन्वयः । पुष्पन्धयः । नाडीघटी खरी मुष्टिनासिकाकाताद् ध्यध । ५ । १ । १२० ।
एभ्यः कर्मभ्यो भ्रमतेः धयतेश्च कर्तरि खश् प्रत्ययो भवति । नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । स्वरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ।
पाणि - करात् । ५ । १ । १२१ ।
आभ्यां धमतेः खश् प्रत्ययो भवति । पाणिन्धमः । करन्धमः
19