SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ( २८८ ) परिमाणार्थमितनखात् पचः । ५ । १ । १०९ । परिमाणार्थात् मितनखाभ्यां च कर्मभ्यः परात् पचेः खो भवति । प्रस्थम्पचा । नखम्पचः । कूला भ्रकरीपात् कषः । १ । १ । ११० । एभ्यः कर्मभ्यः कषतेः खो भवति । कूलङ्कषा । अभ्रङ्कपः करीषङ्कषः । सर्वात् सह । १ । १ सर्वशब्दात् परात् सहेः कषेश्व खः सहो मुनिः । सर्वङ्कषः खलः । । १११ । प्रत्ययो भवति । सर्व भृवृजितृतपदमेश्च नानि । १ । १ । ११२ । I कर्मभ्यः परेभ्य एभ्यः सहतेश्च संज्ञायां खो भवति । विश्वभरा मेदिनी । पतिवरा कन्या । शत्रुञ्जयः अद्रिः । रथन्तरं साम । शत्रुन्तपो राजा । बलिन्दमः कृष्णः । शत्रुसहो राजा । नाम्नीति किम् ? कुटुम्बभारः । धारेर्धर च । १ । १ । ११३ । कर्मणः पराद धारेः सञ्ज्ञायां खो भवति, धारेः धरादेशश्च । वसुन्धरा पृथ्वी । पुरन्दर - भगन्दरौ । १ । १ । ११४ । एतौ सञ्ज्ञायां निपात्येते । पुरं दृणाति पुरन्दरः शक्रः । भगं यति भगन्दरो व्याधिः । ' व्रते गम्ये वाचंयमो निपात्यः' वाचंयमी व्रतीत्यर्थः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy