________________
( २८७)
हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावरचाटुसूत्र- मन्त्रपदात् । ५ । १ । १०३।
शब्दादिवर्जितात् कर्मणः परात् कृगष्टक् प्रत्ययो भवति, हेतुतच्छीलानुकूलेषु कर्तृषु । यशस्करी विद्या । श्राद्धकरो ब्राह्मणः । प्रेषणाकरः । शब्दादिवर्जनं किम् ? शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः ।
भृतौ कर्मणः । ५ । १ । १०४ । कर्मणः कर्मणः पराद् भृतौ गम्यमानायां कृगष्टक् भवति । कर्मकरी दासी।
क्षेम-मिय-मद्र-भद्रात् खाण् । ५ । १ । १०५। __ एभ्यः कर्मभ्यः परात् कृगः खोऽणश्च भवतः । क्षेमङ्करः, क्षेमकारः । प्रियङ्करः, प्रियकारः । मद्रङ्करः, मद्रकारः । मद्रङ्करः, भद्रकारः।
मेघर्तिभयाभयात् खः । ५।१।१०६ । एभ्यः कर्मभ्यः कृगः खो भवति । मेघङ्करः । ऋतिङ्करः । मयङ्करः । अभयङ्करः।
प्रिय-वशाद् वदः।५।१ । १०७ । .. आभ्यां कर्मभ्यां वदतेः कर्तरि खः प्रत्ययो भवति। प्रियंवदः। क्शंवदः । द्विषन्तप-परन्तपौ कर्तरि ण्यन्तस्य तपेः निपात्यौ' द्विषतः तापयति द्विषन्तपः । एवं परन्तपः ।