SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ૨૬૦ જેનદર્શનના મહત્ત્વના સિદ્ધાંતો અર્થ : આ સપ્તભંગી પ્રત્યેક ભાગોમાં સકલાદેશ સ્વભાવવાળી અને વિકલાદેશ સ્વભાવવાળી છે. હવે બંનેનું સ્વરૂપ જણાવે છે. तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः। नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्या दोपचाराद्वा क्रमेणाभिधायकवाक्यं विकलादेशः। અર્થ - પ્રમાણથી સિદ્ધ અનંતધર્મોવાળી વસ્તુનો કાલ આદિ દ્વારા અભેદની પ્રધાનતાએ અથવા અભેદના ઉપચારથી એક કાળમાં એક સાથે પ્રતિપાદન કરવાવાળું વચન સકલાદેશ કહેવામાં આવે છે. નયના વિષયભૂત વસ્તુના ધર્મનું ભેદવૃત્તિની પ્રધાનતાએ અથવા ભેદના ઉપચારથી ક્રમશઃ પ્રતિપાદક વાક્ય વિકલાદેશ કહેવાય છે. 'स्यादस्त्येव घटः' इदं वाक्यं न केवलमस्तित्वधर्मविशिष्टं घटं बोधयति किन्तु अनन्तधर्मात्मकं घटं प्रकाशयति। ननु कथमस्तित्वधर्मविशिष्टवस्तुबोधकमिदं वाक्यमनन्तधर्मात्मकवस्तुबोधकम्? इति चेत्, उच्यते-सर्वधर्माणामस्तित्वात्मकत्वाद् एक धर्मविशिष्टवस्तुप्रतिपादनद्वारा इदं वाक्यं अनन्तधर्मात्मकं वस्तु प्रतिपादयति। ननु सर्वधर्माणामस्तित्वात्मकत्वेन न सम्भवति, परस्परभिन्नत्वात् सर्वधर्माणामिति चेत्, न कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा अस्तित्वाख्यस्य धर्मस्यानन्तधर्मात्मकत्वोपपत्तेः, तथाहि-यदा कालादिभिरष्टाभिः कृत्वा अभेदवृत्ते: धर्म-धर्मिणोरभेदस्य प्राधान्यमङ्गीक्रियते तदा कालादिभिः समस्तधर्माणां तादात्म्येनावस्थितत्वात् ‘स्यादस्त्येव घटः' इति वाक्यमेकधर्मविशिष्टवस्तुप्रतिपादनमुखेन यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति। के पुनः कालादयः? इति चेत्, उच्यते-कालः, आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दधेत्यष्टौ। तत्र 'स्यादस्त्येव घटः' इत्यत्र घटादौ यत्कालावच्छेदेनास्तित्वं वर्तते तत्कालावच्छेदेन शेषा अनन्तधर्मा अपि तत्र वर्तन्ते इति कालेनाऽभेदवृत्तिः। यदेवास्तित्वस्य घटगुणत्वमात्मरूपं-स्वरूपं तदेवान्यसर्वगुणानामिति आत्मरूपेणाभेदवृत्तिः। य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एवान्यपर्यायाणामपीत्यर्थेनाऽभेदवृत्तिः। य एव चाविनाभावः कथञ्चित्तादात्म्यस्वरूपोऽस्तित्वस्य सम्बन्ध: स एवानन्तधर्माणामपीति सम्बन्धेनाऽभेदवृत्तिः। य एव चोपकारोऽस्तित्वस्य स्वानुरक्तत्वकरणंस्ववैशिष्ट्य-सम्पादनंस्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वपर्यवसनं, (अस्तित्वस्य स्वानुरक्तत्वकरणं
SR No.022526
Book TitleJain Darshanna mahattvana siddhanto
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2012
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy