________________
[१२६] सर्वज्ञोऽनेकान्तवादादेव सिद्धयति नत्वेकान्तवादात् एकान्तवादे बन्धमोक्षाव्यवस्थानस्य प्रागावेदनादनेकान्तवादस्य स्वीकरणीयत्वादिति भावः ॥ ६५ ॥
अन्येषामिव भावनां, स्वसत्ता तहलाद्यतः । अतः संचिन्त्यितां सम्यक्, कथं नैकान्तसुन्दरः ॥६६॥
(अन्वयः) यतः, तबलात, अन्येषाम् , भावानाम् , इव, स्वसत्ता, अतः, एकान्तसुन्दरः, सम्यक्, कथम् , न, सश्चिन्त्यताम् ।।
वृत्ति:-यत:-यस्याद्धेतोः । तद्बलात्-बुद्धिविषयीभूतानेकान्तवादबलात् । अन्येषाम्-अपयेषाम् घटपटादिपदार्थानाम् । इवयथा । स्वसत्ता-निजस्थितिः । यथाऽनेकान्तवादबलात् घटपटा. दीनामखिलानां पदार्थानां स्वस्वसत्ता तथा तद्वलादेव सर्वज्ञस्यापि स्वसत्ता सिद्धयतीति भावः । अतः-अस्माद्धेतोः । एकान्तसुन्दरःअत्यन्तमनोहरः । सर्वज्ञ इति शेषः । सम्यक् समीचीनतया । कथम्-केन प्रकारेण केन हेतुनेति यावत् । न-नहि । सश्चिन्त्यताम्-चिन्तनविषयीक्रियताम् , विचार्य्यतामिति यावत् ॥६६॥
एवञ्च सिद्धः सर्वज्ञ-स्तद्वाक्याज्जिन एव तु । तस्मादलं प्रसङ्गेन, सिद्धार्था हि यतो वयम् ॥ ६७ ।।
(अन्वयः) एवञ्च, सर्वज्ञः, सिद्धः, तु, तद्वाक्यात्, जिनः, एव, (सर्वज्ञः) हि, यतः, वयम् , सिद्धार्थाः, तस्मात्, प्रसङ्गेन, अलम् ॥