________________
[१२७]
वृत्तिः — एवञ्च - सर्वज्ञसाधक युक्तिततिप्रकाशनात्मकेन प्रकारेण तु । सर्वज्ञः - कालत्रितयाबाधित सर्वविषयकज्ञानवान् सर्वज्ञपदवाच्यः । सिद्ध: - निष्पन्नः । तु पुनः । तद्वाक्यात् - बुद्धिविषयी - भूत सर्वज्ञप्रतिपादितशब्दतः । जिनः--तीर्थकृत् । एव - खलु । सर्वज्ञो नान्यः कश्चित्तदतिरिक्त इति । हि--निश्चयेन | यतःयस्माद्धेतोः, वयम्--मल्लक्षणा आर्हताः । सिद्धार्था: - निष्पन्न प्रयोजना | सञ्जाता इति शेषाः । तस्मात् - तेन हेतुना । प्रसङ्गेन - सर्वज्ञसाधका तारितिक्तयुक्तिततिप्रसञ्जनेन । अलम् व्यर्थम् । न तत्सिद्धिविषये किमपि वक्तव्यमवशिष्यते इति भावः ।। ६७ ।।
परमशिष्टशिरोमणिः सूरिराट् - शिष्टपरम्पराप्राप्तं मङ्गलमातनुते -
कृत्वा हृदः, प्रकरणं भुवनैकसारं, सर्वज्ञ रत्नग तमोहविनाशहेतु । यत्पुण्यमर्जितमनेन समस्तपुंसां मात्सर्य्यदुःखविरहेण गुणानुरागः ॥ ६८ ॥
प्रन्थान्त
( अन्वयः ) हि, भुवनैकसारम्, सर्वज्ञरत्नगतमोह विनाशहेतु, अद:, प्रकरणम्, कृत्वा, यत्, पुण्यम्, अर्जितम्, मात्सर्य्यदुःखविरहेण अनेन, समस्तपुंसाम् गुणानुरागः ( जायताम् ) ॥
वृत्तिः - हि - निश्चयेन | भुवनैकसारम् एकं सजातीयद्वितीयरहितं च सारं श्रेष्ठमेकसारम्, भुवनेषु लोकेषु एकसारं भुवनैकसारम् भुवनत्रितयप्रधानमित्यर्थः । सर्वज्ञरत्नगतमोह विनाशहेतु । सर्वज्ञो रत्नमिवेति सर्वज्ञरत्नम् तद्गतः प्राप्तश्वासौ मोहोऽज्ञानम्,