________________
[१२५] स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्तते । न यः परगतेनापि, स स इत्युपपद्यते ॥ ६४॥
(अन्वयः) स्वगतेनैव, सर्वज्ञत्वेन, यः, सर्वज्ञः, न यरगतेन, अपि, (सर्वज्ञः) सः इति, उपपद्यते ।
वृत्तिः-स्वगतेन-स्वस्थितेन, स्वीयेनेतियावत् । एव-खलु । सर्वज्ञत्वेन-सकलविषयज्ञातृत्वेन । य:-बुद्धिविषयीभूतः । सर्वज्ञः । सर्वज्ञपदवाच्यः । न-नहि । परगतेन -अन्यजनवर्तिना । अपिखलु । (सर्वज्ञः) भवतीतिशेषः । स:-बुद्धिविषयभूतः । सर्वज्ञःसर्वज्ञपदवाच्यः । इति-एवम् । उपपद्यते-युज्ययते ॥ ६४ ॥
अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् । अन्यः स्यादित्यनेकान्ता-देव तद्भावसंस्थितिः ॥ ६५ ॥
(अन्वयः) अन्यथा, अन्यगतेन, अपि, वर्तनात्वेन, सः, अन्यवत्, अन्यः, स्यात्, इति, अनेकान्तात्, एव, तद्भावसंस्थितिः ॥
वृत्तिः-अन्यथा-सर्वज्ञ: स्वगतेनैव सर्वज्ञत्वेन वर्तते न परगतेनेत्यस्यास्वीकारे । अन्यगतेन-भिन्नवस्तुस्थितेन । अपि-खलु । वर्तनात्वेन-धर्मविशेषेण । सः-सर्वज्ञः । अन्यवत्-घटादिपदार्थवत्। अन्यः-सर्वज्ञभिन्नः । स्यात्-भवेत् । घटो यथा पंटगतेन पटत्वेनान्यो भवति न तु घटस्तथा सर्वज्ञोऽपि अन्यगतेन धर्मेणासर्वज्ञः स्यादिति भावः । इति-अस्माद्धेतोः । अनेकान्तात्-अनेकान्तवादस्वीकारात् । एव-खलु। तद्भावसंस्थितिः-सर्वज्ञसत्तासम्पत्तिः ।