________________
विशेष:-सर्वज्ञविशेषः, तत्तत्सर्वज्ञ इति यावत् । बुधैः-सर्वज्ञजिज्ञासुभिर्मनीषिभिः । तद्वाक्यतः-सर्वज्ञवाक्यतः, कल्पसूत्राद्यागमात्मकवचनत इति यावत् । ज्ञेयः-अवबोध्यः । सत्तर्ककदम्बककरणकसाधनविषयीभूतसर्वज्ञसामान्यप्रदर्शितागमवाक्यतः सर्वज्ञविशेषो बोध्य इति भावः ॥४७॥
इदानीं जगत्कर्तारमपेक्ष्य सर्वज्ञं विशेषयति सूरिराजस्तत्कार्यप्रदर्शनमुखेन वाक्येति
वाक्यलिङ्गा हि वक्तारो, गुणदोषविनिश्चये । क्रियालिङ्गा हि कर्तारः, शिल्पमागे यथैव हि ॥४८॥
( अन्वयः) गुणदोषविनिश्चये, वाक्यलिङ्गाः, वक्तारः, हि, यथैव, हि, शिल्पमार्गे, क्रियालिङ्गाः, कर्तारः हि ।
वृत्ति :-गुणदोषविनिश्चये-गुणदोषयोर्विशेषेणनिश्चये-निश्चय विषये । वाक्यलिङ्गाः-दृष्टादृष्टार्थविषयकबोधजनकसविशेषणाख्यातात्मकं वाक्यमेव लिङ्गं गमकं येषान्ते तथा । वक्तार:उत्तमजात्यभिधानादिप्रयोज्यगीयमानवक्तृत्ववन्तः । उच्यन्ते इति शेषः । हि-निश्चयेन । यथैव येन प्रकारेण खलु। हि निश्चयेन शिल्पमार्गे-प्रासादादिनिर्माणपद्धतौ । क्रियालिङ्गाः-प्रासादादिरचनात्मिका क्रिया-लिङ्गं येषां ते तथा । कर्तारः-कर्तत्वगुणसम्पन्नाः । उच्यन्ते इति शेषः । हि-निश्चयेन । “हि हेताववधारणे" इत्यमरकोश । वक्तार आत्मसम्बन्धिनोर्गुणदोषयोर्निरूपकाः । कर्तारस्तु कारव इतिप्रासादादिगुणदोषविवेचका इतिमहदन्तरं तयोरिति भावः ॥ ४८ ॥