SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ इच्छायाः । रागायोगात्-रागासम्बन्धादित्यर्थः । ननु भगवति वर्तमानाया इच्छाया शुद्धत्वं तत्प्रयोज्यं रागायोगित्वश्चापि न मया स्वीक्रियते इति चेत्तत्राह-तथेति-तथा-भगवदिच्छायाः शुद्धत्वेन गगायोगित्वेन च लोकप्रतीते:-सर्वजनीनप्रत्ययात् भगवत इच्छा शुद्धा रागायोगिनी चेति सर्वेषामनुभवादिति यावत् । एतावता किमायातमित्याह-ततश्चेति७९ (मूलम् )-ततश्च वक्तृत्वादसर्वज्ञ इति वाङ्मात्रमेव ।। ततश्च-लोकानां तथाप्रतीतेश्च, " असौ न सर्वज्ञो वक्तृत्वात्" इति वचनमात्रं न किश्चिदेतदिति स्थितम् , मीमांसकादिभिरापादितां सर्वज्ञासिद्धियुक्तिततिमेवं सत्तर्कप्रकरैः खण्डयित्वा सम्प्रत्युपसंहरति सूरिराजः कतिभिश्चिच्छलोककदम्बकैः-सङ्केपादितीत्यादिना संक्षेपादिति सर्वज्ञः, सन्न्यायोक्त्या निदर्शितः । सामान्येन विशेषस्तु. ज्ञेयस्तद्वाक्यतो बुधैः ॥४७॥ (अन्वयः) इति, सङ्केपात्, सन्न्यायोक्त्या, सामान्येन, सर्वज्ञः, निदर्शितः, तु, विशेषः, बुधैः, तद्वाक्यतः, ज्ञेयः ॥ ___वृत्तिः-इति-पूर्वनिगदितप्रकारैः । संक्षेपात्-समासतः । सन्न्यायोक्त्या-समीचीनतर्कोपस्थानद्वारेण । सामान्येन-मामान्येनेत्यत्र तृतीयार्थोऽभेद: “ धान्येन धनवान्” इत्यादिवत् तथा च - सामान्याभिन्न इत्यर्थः । सर्वज्ञः-सकलपदार्थज्ञाता । सामान्यः सर्वज्ञ इति सङ्कलितोऽर्थः, सर्वज्ञसामान्य इति तु फलितार्थोऽवसेयः । निदर्शित:-निरूपितः, सिद्धान्तित इति यावत् । तु-पुनः ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy