________________
[११७] इदानीं महता प्रबन्धेन प्रयासेन च परैरुपक्षिप्यमाणं सत्तर्कनिवहेन स्वेन संस्थापितं प्रमात्मकज्ञानविषयीकृतं सर्वशं परिभाषयति प्रन्थकृत्-दृष्टशास्त्रेतिदृष्टशास्त्राविरुद्धार्थ, सर्वसत्त्वसुखावहम् । मित गम्भीरमाह्लादि-वाक्य यस्य स सर्ववित् ॥४९॥
( अन्वयः ) यस्य, वाक्यम् , दृष्टशास्त्राविरुद्धार्थम् , सर्वसत्त्वसुखावहम् , मितम् , गम्भीरम् , आह्लादि, (च, भवेत् ) सः, सर्ववित् ॥ ४९ ॥
वृत्तिः–यस्य-बुद्धिविषयीभूतस्य । वाक्यम्-सविशेषणाख्यातात्मकोपदेशवचनम् । दृष्टशास्त्राविरुद्धार्थम्-दृष्टः-अवलोकितः, ज्ञानविषयीकृत इति यावत् शास्त्राविरुद्धः-शास्त्रसम्मतः अर्थोऽभिधेयो यस्य तत्तथा, अबाधितार्थविषयकबोधजनकमिति यावत् । सर्वसत्त्वसुखावहम्-सुखं शर्म आवहति करोतीति सुखावहम् , सर्वाणि निखिलानि च तानि सत्त्वानि जीवा इति सर्वसत्त्वानि, तेषां सुखावहमिति तथा, सापेक्षत्वेऽपि गमकत्वात् समासोऽ. भ्युपेतव्यः । सर्वजनकल्याणनिधानमित्यर्थः । मितम्-परिमितम् , यावदर्थपदमिति यावत् । गम्भीरम्-गूढाभिप्रायम् , यत्सम्बन्धिनमभिप्रायं गौतमप्रमुखा गणधरा एव जानन्ति न तु सर्व: कोऽपीति । आह्लादि-आह्लादयति-चेतः प्रसन्नं करोति तच्छीलन्तथा "अजातेः शीले" ५।१।१५४ ॥ इति शीले णिन्प्रत्ययः । आह्लाद जनकमित्यर्थः । भवेदिति शेषः । सःपूर्वोक्तार्थप्रतिपादकवाक्यवत्त्वेन बुद्धिविषयीभूतः । सर्ववित-सर्व निखिलं त्रिकालव्यापिनं विषयं वेत्ति जानातीति सर्ववित् सर्वज्ञो बुधैरवसेयः । सर्वज्ञसर्वविदित्यनर्थान्तरम् ॥ ४९ ॥