SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [११४] भगवतः सर्वज्ञस्यामनस्कत्वेन इच्छैव नोपपद्यते इति तदीयवक्तृत्वस्य विवक्षाहेतुकत्वाभावेन “विवक्षया च वक्तृत्वम्" इत्यादि दोषोऽनुपपन्न एव पूर्वपक्षिणामित्याशयेनाह-अमनस्कत्वेन चेत्यादि । ७७ (मूलम् )-अमनस्कत्वेन च भगवत इच्छानुपपत्तिः तथावाग्योगस्य च चेष्टामात्रत्वात् , “ ततश्च साचेच्छाभावतो हि यद्राग" इत्येतदप्यपार्थकमेव, तत्रेच्छाभावसिद्धः, ननु वाग्योगात्मकं वक्तृत्वं विवक्षां विनाऽनुपपन्नमिति चेत्तत्राह-तथेति--तथावाग्योगस्य-जात्यभिधानप्रयोज्यगीयमानवक्तृत्वस्य, च-पुनः, चेष्टामात्रत्वात्-केवलचेष्टात्मकत्वादित्यर्थः । एवंस्थिते फलितमाह-ततश्चेति ततश्च-वाग्योगस्य तस्येच्छाप्रयोज्यत्वाभावादेव च । “सा चेच्छाभावतो हि यद्रागः” इत्येतदपि पूर्वोक्तम् व्यर्थमेवेत्यर्थः, तत्र हेतुमाह-तत्रेच्छेति-तत्र भगवति सर्वज्ञे इच्छाभावस्य असिद्धेः-अनिष्पत्तेः । एवञ्च न प्रागावेदितो दोष इति भावः । ननु भगवतीच्छाभावासिद्धिप्रख्यापनेनेच्छाभावप्रयोजकरागाभावोऽप्यर्थतः साध्यते स एव ( इच्छाभाव एव) तु नाद्यापि नासिद्धस्ततः कथमिच्छाभावप्रयोजको रागो भगवति न स्वीक्रियतामितिचेत्तत्राह-भावेऽपीति ७८ (मूलम् )-भावेऽपि शुद्धेच्छाया रागायोगात् तथा लोकप्रतीतेः । ( इच्छाभावस्य भगवति) भावेऽपि-सत्त्वेऽपि, विद्यमानवेऽपीति यावत् । शुद्धेच्छाया-भगवत्सम्बन्धिन्या विशुद्धाया
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy