SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ [१०४] न यतो वीतरागत्वे, तथा चेष्टोपपद्यते । क्लिष्टा प्रयोजनाभावा-न्ननु तत् किन्न निश्चयः ॥ ॥४२॥ ( अन्वयः ) यतः, वीतरागत्वे, प्रयोजनाभावात् , क्लिष्टा, तथाचेष्टा, न, उपपद्यते, तत, ननु, निश्चयः, किम् , न । वृत्तिः-यतः-यस्माद्धेतोः । वीतरागत्वे-रागराहित्ये । प्रयोजनाभावात्-फलाभावात् । क्लिष्टा-क्लेशावहा । तथाचेष्टा-बुद्धिपूर्वकान्यथाकरणादि । न-नहि । उपपद्यते-उपपन्ना भवति । तत्-तस्माद्धेतोः । ननु-निश्चयेन । निश्चयः-वक्तृत्वाभावादिनिर्णयः। किम्-कथम् । न-नहि । अपि तु तथानिश्चयो भवेदेवेति वक्तत्वादिदर्शनेन सर्वज्ञत्वमनुपपन्नं स्यादिति भावः ॥ ४२ ॥ सिद्धान्ती समाधत्तेतथानामस्वभावत्वे, भवोपग्राहिकर्मणः । . कदाचिदुचितैषैव, ततः किं नोपपद्यते ॥ ॥४३॥ ( अन्वयः) भवोपप्राहिकर्मणः, तथानामस्वभावस्वे कदाचित्, एषा, उचिता, एव, ततः, किम , न, उपपद्यते ? ॥ वृत्तिः-भवोपप्राहिकर्मणः-संसारसमर्थककर्मणः सकाशात् । तथानामस्वभावत्वे-तादृशनामस्वभावतायां सत्याम् । कदाचित् जातुचित । एषा-इयम् चेष्टेति यावत् । उचिता-योग्या। एव-खलु । ततः-तस्माद्धेतोः। किम्-कथम् । न-नहि । उपपद्यते-युज्यते, अपितूपपद्यत एवेति ज्ञानवैराग्यादिजनितं वक्तृत्वादिकं सर्वज्ञेऽपि संभवन्न तस्मिन् सर्वज्ञत्वाभावं साधयितुमर्हतीति भावः ॥ ४३ ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy