SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [१०३] कायवाक्कर्मवृत्त्यापि, गुणदोषेन निश्चयः । बुद्धिपूर्वाऽन्यथापि स्या-च्छैलूषस्येव संसदि ॥ ॥ ४१ ।। ( अन्वयः ) असर्वज्ञे, देवदत्ते, अपि, ज्ञानवैराग्यजाः, गुणाः, सदसत्त्वेन, सर्वथा, निश्चेतुम् , नैव, शक्यन्ते ॥ ४०॥ कायवाकर्मवृत्या, अपि, गुणदोषे, न, निश्चयः, शैलूषस्य, संसदि, इव, बुद्धिपूर्वान्यथा, अपि, स्यात् ॥ ४१ ॥ वृत्तिः-असर्वज्ञे-सर्वज्ञताविरहिते, बहुज्ञे, किश्चिज्ज्ञे वेति यावत् । देवदत्ते-देवदत्ताभिधाने कस्मिंश्चित्पुरुषविशेषे। अपिखलु। ज्ञानवैराग्यजाः-सम्यग्ज्ञानरागराहित्यजनिताः । गुणाःउत्कर्षाधायका वक्तृत्वादयः। सदसत्त्वेन-अस्तित्वनास्तित्वेन । सर्वथा-सर्वप्रकारेण । नैव-न खलु । निश्चेतुम्-निर्णेतुम् । शक्यन्तेशक्यताविषयीक्रियन्ते ॥ ४० ॥ __कायवाकर्मवृत्त्या-कायः शरीरश्च वाक् वाणी च कायवाचम् , तस्य कर्मवृत्तिः-कर्मात्मकव्यापारः, कायकर्मवृत्त्यावाकर्मवत्याचेत्यर्थः । गुणदोषे-सप्तम्यर्थो विषयता, तथा च गुणदोषविषयक इत्यर्थः, निश्चयः-निर्णयः । न-नहि । कायवाकर्मवृत्त्यापि गुण. दोषयोनिश्चयो नैव कतुं शक्यते इत्यर्थः । शैलूषस्य-नटस्य । संसदि-सभायाम् । इव-यथा । बुद्धिपूर्वाऽन्यथा-बुद्धिपूर्वकमन्यथाकरणम् । अपि-संभावनायाम् । स्यात्-भवेत् । शैलूषाः संसदि बुद्धिपूर्वकं सामाजिकानानन्दयितुमवास्तविकमन्यथाभूतमाचार दर्शयन्तीति तेषु न गुणदोषविनिश्चयस्तथाऽसर्वज्ञेऽपि बुद्धिपूर्वमन्यथावक्तत्वसम्भवान्न तत्रापि गुणदोषविनिश्चयः कस्यापीति भावः, एवञ्च साध्यवति वक्तृत्वात्मकतोने निश्चयोऽपीति ॥ ४१ ॥
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy