SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [१०५] साक्षादगम्यमानेषु, ततस्तत्र विनिश्चयः । त एवं नैवमिति वा, छद्मस्थस्य न युज्यते ॥४४॥ ( अन्वयः) साक्षात्, अगम्यमानेषु, "त एवं नैवं वा" इति, विनिश्चयः, छद्मस्थस्य, न, युज्यते, ततः, तत्र, (विनिश्चयः)। वृत्तिः-साक्षात्-प्रत्यक्षम् । अगम्यमानेषु-अप्रतीयमानेषु पदार्थेषु । “ त एवं नैवं वा" ते पदार्था इत्थम्भूता नेत्थम्भूता वा। इति एवम्भूतः । विनिश्चयः-विशेषतो निर्णयः । छद्मस्थस्य-अप्राप्तसर्वज्ञत्वकभव्यात्मनः । न-नहि । युज्यतेउपपद्यते । ततः-तस्माद्धेतोः । तत्र-तस्मिन् सर्वक्षे । तादृशविनिश्चयः स्वीकरणीय इति भावः ॥ ४४ ॥ नचात्र यस्तु सर्वज्ञः, स वक्ता नेति शक्यते । वक्तुं तथाऽपसिद्धत्वा-दुच्यते चेन्न युक्तिमत् ॥४५॥ तदभावादथावृत्ति-स्तव हेतोन मानतः । स सिद्ध इति सन्न्यायाद् , व्यतिरेको न पुष्कलः ॥४६॥ ( अन्वयः ) तु, अत्र, यः, सर्वज्ञः, सः, वक्ता, न इति, नच, वक्तुम्, शक्यते, अप्रसिद्धत्वात्, तथा, उच्यते, चेत्, न, युक्तिमत् , तदभावात्, अथ, तव, हेतोः, अवृत्तिः, न, मानतः, इति, सन्न्यायात्, सः, सिद्धः, व्यतिरेकः, पुष्कलः, न ॥ वृत्तिः-तु-पुनः । अत्र-अनुमानपरम्पसयाम् । “ यः सर्वज्ञः स वक्ता न" इति-एवम् । न च-नहि । वक्तुम्-प्रयोक्तुम् ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy