________________
[१०२]
वक्तृत्वादि वस्तु नावलोकितं न तावता तस्मिंस्तद सिद्धिर्भवितुमर्हति किन्तु सर्वैरदर्शनमेव प्रमाणीभवितुमर्हति न च तदस्तीत्युत्तरार्द्धेनाह - सर्वैरदर्शनमित्यादि-च- पुनः । अस्य - सर्वज्ञाधिकरणका सर्वज्ञत्वजस्य । सर्वै:- निखिलैर्जनैः । अदर्शनम् - अनवलोकनम् । पूर्वम् प्राक् । एव - खलु । निराकृतम् - दूरीकृतम्, खण्डितमिति यावत् ॥ ३८ ॥
।
सिद्धान्ती पूर्वपक्षितौ व्यभिचारं दर्शयति
साध्येनापतिबन्धित्वाद्, व्यभिचार्येष सूरिणा । विपक्षे बाधकाभावा- दुक्तस्तत्रापि सम्भवात् ॥ ॥ ३९ ॥
-
"
( अन्वयः ) साध्येन, अप्रतिबन्धित्वात् एष:, ( हेतु: ), सूरिणा, व्यभिचारी, उक्तः, विपक्षे, बाधकाभावात्, तत्र, अपि,
सम्भवात् ॥
वृत्तिः - साध्येन - अनुमेयेन असर्वज्ञत्वेनेति यावत् । अप्रतिबन्धित्वात् व्याप्त्यात्मक सम्बन्धाभाववत्त्वात् । एष:--अयम, हेतु: - वक्तृत्वात्मकं कारणम् । सूरिणा विदुषा पूर्वपक्षिणा । व्यभिचारीसाध्याभाववद्वृत्तित्वात्मकव्यभिचारवान् । उक्तः - प्रयुक्तः । व्यभिचारित्वमेव प्रकटयति- विपक्षे इत्यादि । विपक्षे निश्चित साध्याभाववति साध्यप्रकारकनिश्चयविशेष्ये इति यावत् । सर्वज्ञत्वाभावात्मक साध्यप्रतियोगि काभाववति सर्वज्ञ इति यावत् । बाधकाभावात् - वक्तृत्वात्मक हेतोः सत्त्वे प्रतिबन्धकाभावात् । तत्र निश्चितसाध्याभाववति सर्वज्ञे । अपि खलु । सम्भवात्-सत्त्वात् ॥३९॥
देवदत्तेऽप्य सर्वज्ञे, ज्ञानवैराग्यजा गुणाः । सदसत्त्वेन निश्चेतुं शक्यन्ते नैव सर्वथा ॥
.
1180 11