SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [९८] कथं न तुल्यभावेऽपि, ननु सर्वस्य सर्वथा । अनन्तभूतदोषादे-रात्मनस्तु तदुद्भवात् ॥३४॥ (अन्वयः) तु, अनन्तभूतदोषादेः, आत्मनः, तदुद्भवात् , ननु, तुल्यभावे, अपि, सर्वस्य, सर्वथा, कथम्, न । वृत्तिः-तु-पुनः । अनन्तभूतदोषादेः, अनन्ता अपरिमिताश्च ते भूताः पृथिव्यादयोऽनन्तभूतास्तेषां दोषादिर्यस्य सोऽनन्तभूतदोषादिस्तस्मात्तथा, अनन्तभूतदोषादिविशिष्टादित्यर्थः । आत्मनःजीवात्मनः, असर्वज्ञभूतादात्मन इति यावत् । तदुद्भवात्वक्तृत्वोत्पत्तेः । ननु-निश्चयेन । तुल्यभावे-गुणगुणिनोरभेदात् समानभावे, अभिन्नपदार्थत्वे इति यावत् । अपि-खलु। सर्वस्य-निखिलस्य । सर्वथा-सर्वप्रकारेण । कथम्-केन प्रकारेण । न-नहि । असर्वज्ञाविनाभूतत्वमिति शेषः । सदोषादेवात्मनो वक्तृत्वोत्सत्तिस्वीकारात् असर्वज्ञादेव वक्तृत्वोत्पत्तिसिद्धेधूमेवढ्यविनाभूतत्वमिव वक्तृत्वेऽप्यसर्वज्ञाविनाभूतत्व सिद्धौ बाधकाभावात् तेन हेतुना सर्वज्ञभेदानुमितिसिद्धिरिति भावः ॥३४॥ समाधत्ते अग्निदोषाधनासृत्य, धृमोऽप्यत्राग्निहेतुकः। अन्यथाऽन्योऽपि तस्येत्थं, गमयेत् स्फुटनाद्यपि ॥३५॥ - ( अन्वयः ) धूमः, अपि, अत्र, अग्निदोषादि, अनासृत्य, अग्निहेतुकः, अन्यथा, अन्यः, अपि, इत्थम् , तस्य, स्फुटनादि, अपि, गमयेत् ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy