________________
[९६] असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र तद्यतः । ततोऽसर्वज्ञसंसिद्धे-ननु कस्मान गम्य ते ? ॥ ३१ ॥
( अन्वयः ) यत, तत्, सर्वत्र, असर्वज्ञाविनाभूतम , दृष्टम् , ततः, असर्वज्ञसंसिद्धेः, ननु, ( तदभावः ) कस्मात् , न, गम्यते ? ॥ ___ वृत्ति:- यतः-यस्मात्कारणात् । तत्-बुद्धिविषयीभूतं वक्तृत्वम् । सर्वत्र-सर्वस्मिन् स्थाने । असर्वज्ञाविनाभूतम्-असर्वज्ञसत्तानियतसत्ताकम् । दृष्टम्-ज्ञातम् । ततः-तस्मात्कारणात् । असर्वज्ञसंसिद्धेः-- वह्नयविनाभूतेन धूमेन वह्नरिव असर्वज्ञाविभूतेन वक्तृत्वेन असर्वज्ञस्य संसिद्धेः । ननु निश्चयेन । पक्षे तदभावः-पक्षतयाऽभिमते सर्वज्ञत्वाभावः) कस्मात् कस्मात् कारणात् । न-नहि । गम्यते-प्रतीयते, अनुमीयते इति यावत् । अयं भावः यद्येनाविनाभूतं तेन, तदनुमितं भवति, यथा धूमो वह्नयविनाभूतः, तेन धूमेन वह्निरनुमितो भवति, एवञ्च प्रकृतेऽपि असर्वज्ञाविनाभूतेन वक्तृत्वेनासर्वज्ञस्य सिद्धिर्भविष्यत्येवेति ॥ ३१ ।।
सिद्धान्ती समाधत्ते-श्लोकद्वयेनसर्वत्र दर्शनासिद्धे-रतीतादेरदर्शनात् । न तुल्यमग्निधूमादौ, यतोऽग्नेधूमभावतः ॥३२ ।। एवं यद्यन्यभावोऽसौ, सकृदप्यन्यथा ततः । न धूमः स्यान्नचेहेवं. वक्तृत्वं तनिबन्धनम् ॥ ३३ ॥
(अन्वयः) अतीतादेः, अदर्शनात् , सर्वत्र, दर्शनासिद्धेः, अग्निधूमादौ, न, तुल्यम्, यत, अग्नेः, धूमभावतः । एवम् ,