________________
[ ९३ ]
"
( अन्वयः ) अथ, किञ्चित् न, जानीते, तादृक्, वक्ता, कथम्, भत्रेत्, एवम्, तावत्, प्रतिज्ञार्थः, सर्वथा, न, उपपद्यते ।
वृत्तिः - अथ - यद्यर्थेऽव्ययम् । ( यः ) किञ्चित् किमपि । न- नहि । जानीते - अवबुध्यते । ( असौ ) मया पक्षत्वेन स्वीक्रियते इति शेषः । तहतियद्यर्थलभ्यम् । तादृक्- तादृशः, किचिदपि - विषयक ज्ञानामाववान् जन इति यावत् । वक्ता-उपदेष्टा, निगदितेति यावत् । कथम् - केन प्रकारेण । भवेत् - जायेत । यदि स वक्ता न भवितुं शक्नोति, तर्हि तादृशे पक्षे वक्तृत्वात्मक हेतोरभावात् हेत्वभाववत्पक्षात्मक स्वरूपासिद्धिदोषदूषितत्वेन हेत्वाभासतया तेन हेतुनाऽनुमित्यनुत्पत्तेः, तदाह - एवमित्यादि - एवम् अनेन प्रकारेण । तावत् - निश्चयेन । प्रतिज्ञातार्थः - प्रतिज्ञातः - प्रतिज्ञाविषयीभूतश्चासावर्थः प्रयोजनम्, तथा, सर्वज्ञाभावसाधनात्मक प्रयोजनमिति यावत् । सर्वथा - सर्वेणापि प्रकारेण । न- नहि । उपपद्यतेयुक्तियुक्तं भवति । अयंभाव: "असौ न सर्वज्ञो वक्तृत्वाद्देवदत्तवत् " इत्यनुमाने पक्षतयाऽभिमते किञ्चिदपि विषयकज्ञानाभाववति जने वक्तत्वात्मक हेतोरभावात् “हूदो वह्निमान् धूमात्" इत्यादौ १ स्वज्ञान विषय प्रकृतहेतुत। वच्छेदकवत्त्वसम्बन्धेन धूमाभाववहूदात्मकदोषविशिष्टत्वेन धूमस्य हेत्वाभासतया यथा हृदपक्षकवह्ननुमापकत्वं नास्ति तथा वक्तृत्वस्य तादृशे पक्षेऽसत्वेन वक्तृत्वा
१. स्वपदेन धूमाभाववद्धदात्मकदोषस्य ग्रहणम्, तज्ज्ञानं च धूमाभाववान् हूदो धूमश्चेति समूहालम्बनात्मकं प्राह्यम्, तज्ज्ञानविषयः प्रकृतो हेतुर्धूमः हेतुतावच्छेदकं धूमत्वम्, तद्वत्त्वस्य धूमे सत्त्वादेतादृशसम्बन्धेन तादृशदोषवत्वं हेतावाकलनीयम् ।
"