________________
[८९] वृत्ति:-च-पुन: । किश्च जात्यादियुक्तत्वादेवमादिना" किन्न जात्यादियुक्तत्वाद् वक्ताऽसौ गीयते परैः । ततः कथन्नु सर्वज्ञः” इत्येवमादिना सन्दर्भेण । असर्वज्ञत्वसंसिद्धयै-सर्वज्ञसम्बन्ध्यसर्वज्ञत्वं संसाधयितुम । __ यत्-बुद्धिविषयीभूतमनुमानात्मकं प्रमाणम् । उक्तम-समुद्भावितम । असौ न सर्वज्ञौ वक्तृत्वाद्देवदत्तवत् इति-इत्याकारकमनुमानात्मकम् । तत्-पूर्वपक्षिसमुद्भावितम्-प्रमाणम्-मानम् प्रमितिसाधनमितियावत् । परीक्ष्यते-परीक्षाविषयीक्रियते ॥ तत्र किश्चिज्ज्ञ इष्टश्चेत् , न ज्ञातं तेन किं मतम् ॥२३॥ यदि यागादिविधयो, मिथ्यार्थत्वेन निश्चिताः । मोक्ता हिंसादयः सर्वे, यतो दुगतिहेतवः ॥२४॥ ___ (अन्वयः) तत्र, किश्चिज्ज्ञः, इष्टः, चेत्, यदि, यागादिविधयः, मिथ्यार्थत्वेन, निश्चिताः, यतः, सर्वे, हिंसादयः, दुर्गतिहेतवः, प्रोक्ताः, (तर्हि ) तेन मतम् , किम् , न, ज्ञातम् ? ।
वृत्तिः-तत्र-तदीयानुमाने । पक्षतयेतिशेषः । किश्चिज्ज्ञःकिश्चिद्विषयकज्ञानवान् । इष्टः-अभिमतः । चेत्-यदि । यदि पूर्वपक्षिणाऽसर्वज्ञत्वसाधकानुमाने पक्षतया किश्चिज्ज्ञो गृह्यते चेदितिभावः । यदि-चेत् । यागादिविधयः-यज्ञादिकार्याणि । मिथ्यार्थत्वेन निश्चिता:-अयथार्थज्ञानविषयीकृताः, असत्प्रयोजनत्वेन ज्ञाता इतियावत् । ननु यागादिविधयो मिथ्यार्थत्वेन निश्चिता इत्येव कथं निश्चीयते इति चेत्तत्राह-यत इत्यादिना, यतः-यस्माद्धेतोः । सर्वे-निखिलाः । हिंसादयः-हिंसाप्रमुखाः,