________________
[ ८५ ]
अनेकान्तभावनातः कथं रागादिप्रक्षय इति शङ्कां निराकरोतितत्प्रतीत्यादि - अयमाशयः - अनेकान्तवादिभिरस्माभिर्न कस्मिंश्चिदपि वस्तुनि रागोत्पादकत्वं द्वेषोत्पादकत्वं वा सुखजनकत्वं दुःखजनकत्वं वा किन्तु प्रत्येकं वस्तुनि रागोत्पादकत्वं द्वेषोत्पादकत्वमपि सुखजनकत्वमित्र दुःखजनकत्वमपि स्वीक्रियते, तथा यमालम्ब्य राग आत्मनि समुत्पद्यते तमेवावलम्ब्य तस्मिन् द्वेषोऽपि समुदियात् इति रागजनकत्वभावनाया द्वेषजनकत्वभावना प्रतिपक्षभूता समजनि, तथा च रागजनकत्व भावना - प्रतिपक्षभूताद्वेषभावनातो रागाद्युपेक्षातो रागादिप्रक्षयः स्वतः सम्भवीति मन्तव्यम्, इदमेवोपपादयतिइहेत्यादि - " व्यवहारदर्शनात्" इत्यन्तेन प्रन्थसन्दर्भेण ।
६३ - ( मूलम् ) इह “ यतो यद्भवति तत्प्रतिपक्षान्न तद्भवितुमर्हति " इति न्यायः,
गुणदोषैकान्तग्रहाच्च रागद्वेषौ, अतस्तत्प्रतिपक्षभूतादने - कान्तत एवोपेक्षा संभवो नान्यथा, तथाहि - उभयात्मककत्वोपमहादुपेक्षैत्र दृश्यते स्त्रीशरीरादिषु तद्विदाम्,
तस्यां गुणा दोषाच, ततः किमनयेति व्यवहारदर्शनात्
यतः - यस्माद्वस्तुनो यद्वस्तु भवत्युत्पद्यते तत्प्रतिपक्षात् तत्प्रतिपक्षभूतात्पदार्थात्, तत्- बुद्धिविषयीभूतं वस्तु न- नहि, भवितुम् - उत्पत्तुम् अर्हति-योग्यतामाधत्ते इति न्यायार्थः, कस्मिंश्चिद्वस्तुनि गुणस्यैव दोषस्यैव वा ज्ञानाद्रागो द्वेषो वा जायते इति गुणैकान्तमहाद्रागः, दोषैकान्तग्रहाद्द्द्वेषः, अतः अस्माद्धेतोः, तत्प्रतिपक्षभूतात्
-