SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [८४] रागादीनां कृतकत्वेऽपि यथाऽनुभूतस्य वर्तमानभावस्यातीतकालस्य प्रवाहतोऽनादित्वन्तथैव रागादीनामपि प्रवाहतोऽनादित्वम्य सिद्धिरिति भावः । दृष्टान्तमुफ्यस्यति-अन्यथेत्यादि-अन्यथारागादीनां प्रवाहतोऽनादिवास्वीकारे पूर्वकालेऽभावात् अबीजत्वेन पश्चादप्यबीजवापत्तिः, पूर्वकालेऽभावादसबीजत्वं कालान्तरेऽपि सन्नभवितुमर्हति, तथा सति सिकतादितोऽपि तैलादेरुत्पत्तिर्दुर्वारा स्यात् अविशेषात्, तत्र पूर्वमसतोऽपि तैलादेः पश्चात् सद्भावस्वीकारादिति भावः । ननु वर्तमानस्याप्यननुभूतस्यातीतता कृतकत्वस्य च वर्तमानकल्पता स्वीक्रियते इति कथमात्मनोऽनादित्वसिद्धिरित्याशङ्कय समाधत्ते-नचाननुभूतेत्यादिना-कृतकत्वमित्यन्तेन । ६२-नचाननुभूतवर्तमानस्यातीतता, वर्तमानकल्पं च कृतकत्वमिति ॥ आह-कृतः पुनरमीषां प्रक्षय ? इति, उच्यते, पतिपक्षभावनातः, साचानेकान्तभावना, तत्पतिपक्षादुपेक्षासम्भवसामर्थ्यदर्शनात् , अथ पद्मरागादिमलादिदृष्टान्तेन स्वीक्रियतामात्मनि रागादिप्रक्षयः परं तत्र क्षारमृत्पुटपाकादिरिव नात्र रागादिप्रक्षयकारकः कश्चन समुपलभ्यते तथा च कथमात्मनि रागादिप्रक्षय इत्याशङ्कतेआह-कुतः पुनरित्यादि समाधत्ते-उच्यते इत्यादि-यथा क्षारमृत्पुटपाकादितः पद्मरागकात्तस्वरमलस्य प्रक्षयस्तथा प्रतिपक्षभावनातो रागादीनां प्रक्षय इति भावः । ननु कीदृशी सा भवत्ति भावना यया रागादिप्रक्षय इत्याशङ्कय समाधत्ते-साचानेकान्तेत्यादि
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy