________________
[ ८३ ] रञ्जकत्वमपवर्गावस्थायामनुपरञ्जकत्व मका मे नापि स्वीकरणीयमिति
भावः ।
ननु निसर्गशुद्धानां पद्मरागादीनां न मलेनोपरञ्जनं किन्तु मलादिग्रस्तानामेवोत्पत्तिरित्याशङ्कते न ते निसर्गशुद्धा इत्यादि समाधत्ते - आत्मन्यपीत्यादि
६० - ( मूलम् ) न ते निसर्गशुद्धा मलेनोपरज्यन्ते, किन्तु तद्ग्रस्ता एवापजायन्त इति चेत, आत्मन्यपि रागाद्यपेक्षया तुल्यमेतत्, अनादित्वात् स नोत्पद्यते इति चेत् अनादिरेव तद्ग्रस्त इति को दोष: ?
•
•
आत्मनोऽपि निसर्गशुद्धस्य न रागादिभिरुपरञ्जनं किन्तु रागादिग्रस्तस्यैवोत्पत्तिरिति समाधानस्य तुल्यत्वादिति भावः । ननु पद्मरागादीनां सादित्वादुत्पत्तिरस्तु आत्मनस्त्वनादित्वादुत्पत्त्यभावादृष्टान्तदाष्टन्तिकयोर्मह देवान्तरमित्याशङ्कते - अनादित्वादिति - समाधत्ते-अनादिरेवेत्यादि अनादिः स उत्पत्तिरहितो भवतु किन्तु स पुनरनादिरेव रागादिप्रस्तोऽपि जायतां क्षत्यभावादिति न दृष्टान्तदान्तिकयोः कश्चन भेद इति भावः ।
नन्वात्मनोऽनादित्वेऽपि रागादीनां कथमनादिता, तेषां कृतककर्मविशेषत्वादित्याशङ्कते - कृतकेत्यादि - समाधत्ते - नेत्यादि -
६१ - ( मूलम् ) कृतककर्मभेदत्वा तेषामनादित्व विरोध इति चेत्, न कृतकत्वेऽप्यनुभूत वर्तमान भावातीतकालवत् प्रवाहतोऽनादित्वसिद्धेः, अन्यथा प्राकालाभावतोऽबीजत्वेन पश्चादपि तदभावापत्तिः, नह्यसत् सद्भवति, अतिप्रसङ्गात्,