________________
[८१] अथ रागादीनामात्मस्वभावत्वप्रयोज्यप्रक्षयानुपपत्तिमूलकं रागादिप्रक्षयाच्चास्येत्यादिनाऽऽपादितं सर्वज्ञाभावं खण्डयितुं साटोपमुपक्रमते सिद्धान्ती यच्चोक्तं रागादिप्रक्षयात् (श्लोक १४) इत्यादिनेति-खण्डने हेतुमाह-पद्मरागकार्तस्वरेत्यादि ।
५७-(मूलम् ) यच्चोक्तं 'रागादिप्रक्षयात् ' (ले० १४) इत्यादिना रागादीनामात्मस्वभावत्वात् प्रक्षयानुपपत्तिरिति, एतदप्ययुक्तं, पद्मरागकार्तस्वरमलस्य तत्स्वभावत्वेऽपि क्षारमृत्पुटपाकादेः प्रक्षयोपपत्तेविंशुद्धिकल्याणतादर्शनात् ,
यथा पद्मरागमणि-सुवर्णमालिन्यस्य पद्मरागकाञ्चनस्वभावतायामपि क्षारमृत्तिका-पुटपाकादितो मालिन्यविनाशात् पद्मरागे विशुद्धिः काश्चने काञ्चनता चावलोक्यते तथा रागादीनामात्मस्वभावत्वेऽपि विशुद्धभावनादितस्तेषां (रागादीनां) प्रक्षयोपपत्तेरात्मनो विशुद्धरूपेणावस्थानमुपपद्यते इति न सर्वज्ञतानुपपत्तिरिति भावः । ननु मलस्य पद्मरागकार्तस्वरस्वभावत्वास्वभावत्ववद्र गादीनामप्यास्मस्वभावत्वास्वभावत्वत्वस्वीकारण्न्न मार्वकालिकसर्वज्ञतासिद्धिरित्याशङ्कय समाधत्ते-तदतत्स्वभावत्वे इत्यादि
५८-(मूलम् ) तदतत्स्वभावत्वे सर्वस्य पद्मगगादेविशुद्धयादिप्रसङ्गः, अमलस्वभावात् , नवा कस्यचित् कदाचित् , अमलस्वभावत्वेऽपि पूर्ववदनुपपत्तेः न पद्मरागादेर्मलं सांसिद्धिकं, भिन्नवस्तुत्वेन तदुपरञ्जकत्वादिति चेत् ,
ननु पद्मरागादीनां मलामलस्वभावत्ववदात्मनोऽपि रागाद्यरागादिस्वभावत्वस्वीकारान्न सार्वकालिकरागादिप्रक्षयोपपत्तिरित्या