________________
[८०] कृत्यापि स्वमतेन सर्वज्ञसिद्धिमप्रतिहतां वक्तुमुपक्रमते-वस्तुधर्मस्य चेत्यादिना-वस्तुधर्मस्यैकान्ततुच्छत्वाभावे अतुच्छस्वरुपेणापि नदीयने केनचिद्रूपेणभाव्यम् , अतुच्छस्वरूपमेव च वस्तु सर्वज्ञपदव्यपदेशभाजनमिति भावः ।
वस्तुधर्मस्यैकान्ततुच्छत्वाभावे युक्ति प्रदर्शयति-न हीत्यादिना ।
५६-(मूलम् ) न हि पररूपाभावः स्वरूपभावपृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुंच्छतैव, तद्भावस्येतखाभावात् , एकान्ततुच्छभावस्य चाऽतुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इति प्रसिद्धोपादान एवाप्रमाणभूत एव विकल्पः, न साक्षात्तुच्छगोचरस्तदप्रतिभामनेन विधिनिषेधाविषयखात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयम् ।
पररूपेण घटाभावस्य स्वरूपेण घटात् एकान्ततः पार्थक्यं नास्तीति भावः । स्वमतेन असर्वज्ञेऽवगतस्यापि सर्वज्ञाभावस्यैकान्ततुच्छतां वारयति-नचैवमसर्वज्ञ इत्यादिना-तत्तुच्छतैवेत्यन्तेन । तत्र हेतुं दर्शयति-तद्भावेत्यादिना । तत्र पोद्वलमाह-एकान्ततुच्छभावस्येत्यादिना । सर्वञ्चैतन्मनसिकृत्य नास्तीत्यादि विकल्पस्य प्रसिद्धोपादानत्वमप्रमाणभूतत्वञ्चाकलयति-दित्यतोनास्तीत्यादिना विकल्प इत्यन्तेन । उक्तविकल्पस्य साक्षात्तुच्छगोचरत्वं व्युदस्यतिन साक्षात्तुच्छेत्यादिना । षष्ठास्तिकायादिशब्दानां प्रवृत्तिनिमित्तमुपपादयति-अपराभावेत्यादिना-भावनीयमित्यन्तेन ॥