SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [७८] ननु अभावज्ञानात्मनाप्यभावाख्यप्रमाणेन सर्वज्ञाभावप्रतीतिदुर्लभैवेत्याशङ्कते-नचानेनेत्यादिना-समाधत्ते-षष्ठास्तिकायेत्यादिना ५३-(मूलम् ) न चानेनाविकृतोऽभावो न गम्यते, षष्ठातिकाय(अभाव)वत् नास्ति सर्वज्ञ इत्यभावप्रीति(ते)रिति, एतदप्यसत् , अधिकृतज्ञानस्यापि तत उत्पत्त्यसिद्धेः, संयोगादिप्रतिषेध्यसंख्ये तरकायापेक्षमनोविज्ञानात्मकत्वात् , अस्य चापरिमाणत्वात् परिणीतितः इष्टविषयानुत्पत्त्या तत्परिच्छेदायोगात्, षष्ठास्तिकायशब्दतो यथाऽधिकृतवस्त्वभावप्रतीतिस्तथा नास्ति सवज्ञः इत्यतोऽप्यधिकृताभावप्रतीतिः सुलभैवेतिभावः । अन्यस्त्वाहेत्यादिनोपपादितं पूर्वपक्षिमतमपक्षेप्तुमुपक्रमते एतदप्यसदिति । उपपादयति-अधिकृतेत्यादि-अभावज्ञानात्माभावप्रमाणतोऽपि " नास्ति सर्वज्ञः" इत्यधिकृतस्य ज्ञानस्योत्पत्तिरसिद्धैवेति । उपपादयति-संयोगादीत्यादिना तत्सरिच्छेदायोगादित्यन्तेन । प्रकारान्तरेण पूर्वपक्षिमतमपक्षिपति इतश्चेत्यादि ५४-(मूलम् ) इतवाप्रामाणत्व, नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न चेदमक्षव्यापारज, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात् , अक्षस्य च विषयान्तरेऽप्यप्रवृत्तः, न च वस्तुविशेषणीभूतत्वेनास्य ग्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः,
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy