SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ [७७] सर्वज्ञाभावसाधकत्वेनाभिमतस्याभावस्याभावज्ञानरूपत्वं स्वीकरणीयम् , अस्य ज्ञानस्य विषयन्तुच्छम् (अभावः) कुलालादिर्यथा व्यापारमनुभूय घटादौ हेतुस्तथा नायमभावः स्वपरिच्छेदकज्ञानहेतुः स्वीक्रियते किन्तु विज्ञेयतामात्रत इति स्वीकार्य्यम् । __अभावेन यद्यभावज्ञानं विवक्ष्यते तर्हि ज्ञानस्य सविषयत्वादवश्यं केनाचिद्विषयेणापि भाव्यमित्याशङ्कय निराकरोतिप्रमेयमित्यादि । ५२-(मूलम् ) प्रमेय त्वस्य तुच्छ, न चाय कुलालादिग्द् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतुः, अपि तु विज्ञेयतामात्रात्, न चास्येयममप्ययुक्ता, प्रमेयत्वानुपपत्तेः, न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेद्यस्य तदभ्युपगमात् , ननु व्यापारमनुभवतः कुलालस्यैव घटहेतुत्वं दृश्यते तुच्छस्य विषयस्य स्वपरिच्छेदकं ज्ञानं प्रति व्यापाराप्रतिसन्धानात कथं हेतुत्वमित्याशङ्कय समाधत्ते-नचायमित्यादिना-विज्ञेयतामात्रादित्यन्तेन । ननु भवेदपि विज्ञेयतामात्रात् स्वपरिच्छेदकज्ञानं प्रति हेतुत्वं परन्तु सैव नास्ति तुच्छस्येत्याशङ्कते-नचेत्यादि-समाधत्ते प्रमेयत्वेत्यादि-यदि तुच्छस्य विज्ञेयता न स्वीक्रियेत तर्हि तस्य प्रमेयत्वमप्यनुपपन्नं स्यानच तदिष्टमिति भावः । ननु विज्ञेयतास्वीकारे स्वजन्यज्ञानपरिच्छेद्यत्वेन तुच्छस्य भावत्वापत्तिरित्याशङ्कतेन च स्वजन्येत्यादिना । भावज्ञानपरिच्छेद्यस्यैवभावत्वं स्वीक्रियते न पुनरभावज्ञानपरिच्छेद्यस्यापीति समाधत्ते-भावज्ञानेत्यादिना ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy