________________
[७६ ] यद्येवं तर्हि ज्ञानविनिर्मुक्तत्वमेवात्मनोऽसिद्धम् , निश्चयस्यैव ज्ञानत्वादितिभावः । एवञ्चाभावस्य सर्वज्ञाभावप्रमाणत्वेनाभ्युपगतस्य ज्ञानविनिर्मुक्तात्मत्वमपि न स्वीकर्तुं शक्यमिति ।
तृतीयं विकल्पं खण्डयितुमुपक्रमते-अथवित्यादि-यद्यभावस्योपलब्ध्यन्तरस्वरूपत्वन्तर्हि तथाविद्याऽभावतोऽपि सर्वज्ञाभावनिश्चयो न स्यादितिभावः । तत्र हेतुमाह-तदविषयेत्यादि-सर्वज्ञाभावनिश्चयाविषयेण संसर्गेण सर्वज्ञाभावनिश्चयासिद्धेरित्यक्षरार्थः । ननु यथाऽन्यत्राभावनिश्चयस्तथैव सर्वज्ञाभावनिश्चयोऽपि स्यादित्याशङ्कतेनचेत्यादि-समाधत्ते-न्यायविदः इत्यादि “ सर्वज्ञग्राहकप्रमाणाभावान्नास्ति सर्वज्ञः” इत्यात्मकन्यायविदः स्वभाववैचित्र्यात् सर्वज्ञसत्त्वाऽऽशङ्का निवृत्तिन. स्याद्यथा घटाद्यभावनिश्चये सत्यपि घटसत्त्वाऽऽशङ्कानिवृत्तिदितिभावः । ननु तद विषयसंसर्गेण तद्ग्रहणासिद्धिमस्वीकृत्य सर्वज्ञाभावनिश्चयाभाव आपादितः किन्तु तदविषयसंसर्गेण तद्ग्रहणासिद्धिमेव न वयं स्वीकुर्म इति कथं तदापत्तिरित्यारित्याशङ्कय समाधत्ते-तदविषयेत्यादि
५१-(मूलम् ) तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसच मिति, अन्यस्त्वाह अमावो ह्य भावज्ञानमेव,
यादि तदविषयसंसर्गेण तद्ग्रहणामभ्युपगम्यते तदा तस्य सर्वज्ञस्याऽऽत्यन्तिकमसत्त्वं न सिद्धयतीतिभावः ।
अथ सर्वज्ञाभावसाधकमन्यप्रतिपक्षिमतमपाकर्तुमुपक्रमते"अन्यस्त्वाह" इति, तदीयं मतमुपपादयति-अभावो ह्यभावेत्यादि ।