________________
[७४] भावपरिच्छेदकत्वमभावस्य तदैव भवितुमर्हति यदा परिच्छेदकत्वमभावस्य धर्मः स्यात् तस्य (परिच्छेदकत्वस्य ) ज्ञानधर्मत्वादितिभावः । नन्वभावस्य परिच्छेदकत्वाभावेऽपि-अभावपरिच्छेदकज्ञानजनकत्त्वमस्तु तावतैव सर्वज्ञाभावप्रमापकत्वमप्यायातमेवेत्याशङ्कते-नचाभावेत्यादि-अस्य-अभावस्य अभावपरिच्छेदकज्ञानजनकत्वं नैव स्वीकरणीयमिति भावः । तत्र हेतुमाह-अभावत्वविरोधादिति-यदि तादृशज्ञानजनकत्वं तत्र स्वीक्रियेत तर्हि तत्राभावत्वमेव व्यालुप्येत, तादृशज्ञानजनकत्वाभावत्वयोरेकत्रानवस्थानात्मकविरोधादितिभावः । अन्यामापत्तिमाह-तजननेत्यादि
.
४८-(मूलम् ) तज्जननशक्त्यभावे तदनुत्पत्तेरतिप्रसङ्गात , तदभ्युपगमे भावत्वापत्तिः, किञ्च-अभावाद् भवतीतिकारणपतिषेधात्तज्ज्ञानस्य निर्हेतुकत्वतः सदाभावादिप्रसङ्गः ।
अयं भावः-कारणनिष्ठकार्योत्पादनसानर्थ्याभावे कार्यानुत्पत्तिर्भवति तथाचाभावेऽभावपरिच्छेदजननसामर्थ्यविरहेऽभावपरिच्छेदानुत्पत्तिरेव ।
किञ्चाभावेऽभावपरिच्छेदजननशक्तिः स्वीक्रियते न वा ? यदि नो स्वीक्रियते तर्हि तत्र परिच्छेदानुत्पत्तेरेवेष्टतया तत्परिच्छेदेऽतिप्रसङ्गः । यदि च स्वीक्रियते तदाऽभावस्य भावत्वापत्ति: स्यात् । ननु जायतां भावत्वापत्तिः किनश्छिन्नमिति प्रतिपक्षिशङ्कायामाहकिश्चेत्यादिना-अभावाद्भवतीति भवन्मतेऽभावस्यासत्त्वेन कारणप्रतिषेधः फलति, एवश्वाभावादुत्पद्यमानस्याभावपरिच्छेदात्मकज्ञानस्य फलितेन निर्हेतुकत्वेन कारणानपेक्षणात् सर्वदोत्पत्त्यादि