SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [२] ऽवस्थानाद्यार्थप्रवृत्तेः आत्यन्तिककृतकृत्यतादिबाधकत्वं नास्ति तथा देशनाप्रवृत्तेरपि तादृशकृतकृत्यताबाधकत्वं नास्तीत्यनुसन्धेयम् । ननु स्थितिप्रवृत्ति: प्रवृत्तिरहितस्यापि पुरुषस्य स्वरसतः समुत्पद्यते देशनाप्रवृत्तिस्तु न तथेति न स्थितिप्रवृत्तिदृष्टान्तेन देशनाप्रवृत्तेः कृतकृत्यतायामबाधकत्वमुपपादयितुं शक्यमित्याशङ्कते-साऽप्रवृत्तस्यापीत्यादि-सा-स्थितिप्रवृत्तिः । स्वरसत-स्वेच्छाविशेषात् । एवअवधारणार्थकम् । समाधत्ते-तथाविधेत्यादि ४५-(मूलम् ) तथाविधकर्मयुक्तस्य देशनाप्रवृत्तिरप्येवं कल्प्येत्यदोषः, अतीर्थ करवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत्, न, अनभ्युपगमात्, नहि सामान्यकेवलिनस्तथा देशनायां पवर्तन्ते इत्यल प्रसङ्गेन ॥ तीर्थकरनामकर्मसहितस्य देशनाप्रवृत्तिरपि तथाविधकर्मसदृश्येव भवतीति न कश्चिद्दोष इति भावः । ननु तीर्थकृतो वीतरागस्य देशनाप्रवृत्तिस्तथाविधकृतकृत्यताया अबाधिका भवतु, तीर्थकृद्भिन्नस्य वीतरागस्य देशनाप्रवृत्तिकृतकृत्यतायां बाधिका भवेदेवेत्याशङ्कते अतीर्थकरेत्यादि । समाधत्ते-अनभ्युपगमादिति । न वयमतीर्थकरस्य केवलिनो देशनाप्रवृत्ति स्वीकुर्मो येन साऽऽपत्तिः स्यादस्माकमिति भावः । एतदेव स्फुटयति-नहीत्यादिना-सामान्यकेवलिनः-तीर्थकृद्भिन्नस्य केवलित्वसाधारणधर्मवतः । तथा-तेन प्रकारेण औदासीन्येनेति यावत् । अथेदानी प्रागावेदितं प्रमाणपञ्चकविरह. प्रयोज्यमभावस्य मानत्वं खण्डयितुमुपक्रमते यञ्चोक्तमित्यादिनाखण्डने हेतुमाह-विकल्पानुपपत्तेरिति ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy