________________
[७१] मित्यादि, तत्कर्मभावे तत्क्षयायोपायप्रवृत्तेः कृतकृत्यखानुपपत्तिरिति चेत् , न, अनभ्युपगमात् , न हि भवस्थस्य भगवतः क्षीणमोहस्याप्येकान्तेन कृतकृत्यत्वमिष्यते, भवोपग्राहिकर्मयुक्तत्वात् ।
औदासीन्येन प्रवृत्तिरात्यन्तिक्या उदासीनताया बाधिका तदा भवितुमर्हति यदा सा प्रवृत्तिः स्वनिमित्ता भवेत् , सैव नास्ति देशनाप्रवृत्तेरन्यनिमित्तत्वादितिभावः । ननु देशनाप्रवृत्तिर्वीतरागस्य परार्था भवत्येव कथमित्याशङ्कां निराकुरुते प्रवचनेत्यादि-प्रवचनवात्सल्यादिनिमित्तं यत् प्रागुपात्ततीर्थकरनामकर्मनिर्जरणन्तदेव हेतुर्यत्र सा प्रवचनवात्सल्यादिनिमित्तप्रागुपात्ततीर्थकरनामकर्मनिर्जरणहेतुस्तस्या भावस्तत्त्वन्तस्मादित्यर्थः । तत्र प्रमाणमुपन्यस्यतिउक्तश्चेत्यादि । ननु तस्य तीर्थकरनामकर्मभावे तद्विनाशार्थमवश्यन्तदुपायविषयिणी प्रवृत्तिस्तस्यां च सत्यां कृतकृत्यतानुपपत्तिरिति शङ्कते-तत्कर्मभावे इत्यादि समाधत्ते-अनभ्युपगमादिति, उपपादयति भवोपग्राहीत्यादि भवोपप्राहिकर्मयुक्तत्वात्तस्यैकान्तत्वेन कृतकृत्यताया असत्त्वेऽपि क्षत्यभावादितिभावः । ननु जायतामन्यनिमित्ताऽपि देशनाप्रवृत्तिस्तस्या - अपि प्रकृष्टौदासीन्यबाधकत्वं तादवस्थ्यमिति शङ्कते-अन्यनिमित्तापीत्यादि-समाधत्ते-नेत्यादिना, : ४४-(मूलम् ) अन्यनिमित्तापि प्रकृष्टौदासीन्यबाधिनी प्रवृत्तिस्तदवस्थैवेति चेत्, न, स्थितिप्रवृत्त्या व्यभिचारात् साऽप्रवृत्तस्यापि स्वरसत एवेति चेत् , ... तर्हि अवस्थानार्थ प्रवृत्तेरपि कृतकृत्यतादिबाधकत्वं जायताम् । न च स्थितिप्रवृत्तेः कृतकृत्यताबाधकत्वं कचिदृष्टम्, एवश्च यथा