________________
[७० ] यार्थमात्रप्रतिपत्ति: न तावता तस्य यथार्थावबोध इत्याशङ्कतेअर्थमात्रप्रतिपत्त्येत्यादिना-समाधत्ते-नेत्यादिना-प्रतारकत्वस्य रागद्वेषमूलकतया भगवतश्च रागद्वेषराहित्येन न . प्रतारकत्वमिति नोक्तदोषः । ननु सत्यामात्यन्तिक्यामुदासीनतायां कथं देशनायां प्रवृत्तिरित्याशङ्कते-प्रकृष्टौदासीन्यभावेनेत्यादि-समाधत्ते-नेत्यादिना
४२-( मूलम् ) प्रकृष्टौदासीन्यभावेन वीतरागस्य देशनानुत्तिरयुक्तेति चेत् , न, औदासीन्येनैव प्रवृत्तेः, तथाहिन भगवतस्तियङ्नरामरेषु देशनाया विशेषः, यथाबोध प्रवृत्तेः, तथा प्रवृत्तिरप्ये कान्तौदासोन्यवाधिनीति चेत्,
सत्यामुदासीनतायामौदासीन्येन देशनाप्रवृत्तौ न किञ्चिद्वाधकमितिभावः । उपपादयति तथाहीत्यादिना-यतो हेतोरौदासीन्येनैव भगवतो देशनायां प्रवृत्तिस्तत एव तिर्यङ्नरामरेषु देशनायां कश्चिद् विशेषो न भवति, अन्यथा सर्वेषामेव तेषां कृते भिन्नभिन्नया देशनया भवितव्यम् । ननु कथमेकस्यामेव देशनायां सर्वेषां तेषां श्रवणादौ प्रवृत्तिरित्याशङ्कय समाधत्ते-यथेत्यादिभगवतो देशना तु समानैव समेषां तेषां कृते प्रवृत्तिस्तु यथाबोधं स्वीकरणीयेति भावः । ननु देशनायामौदासीन्येनापि प्रवृत्तिरात्य. न्तिक्या उदासीनताया बाधिका स्यादित्याशङ्कते-तथाप्रवृत्तीत्यादिसमाधत्ते-नेति ।
४३-(मूलम् ) न, तस्या अन्यनिमित्तत्वात् , प्रवचनवात्सल्यादिनिमित्तमागुपात्ततीर्थकरनामकर्मनिर्जरणहेतुत्वात, उक्तश्च “तं च कह वेइज्जइ ? अगिलाए धर्मदेसणादीहि"