SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [६९] निश्चयजनकप्रमाणाभावादितिभावः । ननु तन्निश्चायकं प्रत्यक्षादिकं किमपि प्रमाणं भविष्यतीत्याशाङ्का निराकरोति-अतीन्द्रियार्थत्वादित्यादिना-तस्यार्थस्यातीन्द्रियत्वात् अतीन्द्रियार्थसाक्षात्कारिणः सर्वज्ञस्य चास्वीकारात्पूर्वोक्तनिश्चायकप्रमाणाभाव इतिभावः, तावता किमित्याह-तद्व्यतिरेकेण चेत्यादि । ४०-(मूलम् ) तद्वयतिरेकेण च तद्विशेषावगमोपायाभावादिति समाश्रीयतामतीन्द्रियार्थसाक्षात्कारी, तदभावे सतीष्टार्थासिद्धिरिति, तद्भावेऽप्यतादृशस्यातीन्द्रियार्थत्वात् तद्विवक्षावगमोपायाभाव इतिचेत् , तादृशनिश्चायकप्रमाणाभावेन च हेतुना विशेषेणार्थावबोधो. पायाभाव इत्यकामेनापि तादृशातीन्द्रियार्थसाक्षात्कारी सर्वज्ञः समाश्रीयताम् । कथमितिचेत्तत्राह तदभावे इत्यादिना । सर्वज्ञाभावे सतीष्टस्यार्थस्य सिद्धिर्न भवति कथमपीति भावः । ननु स्वीक्रियतामतीन्द्रियार्थसाक्षात्कर्ता सर्वज्ञस्तावताऽपि नेष्टसिद्धिः, असर्वज्ञस्य वक्तुरतीन्द्रियार्थत्वात्तदीयविवक्षावबोधे उपायस्यादर्शनादित्याशङ्कते-तद्भावेऽप्यतादृशस्येत्यादि-समाधत्ते-नेत्यादि । ४१-(मूलम् ) न, शब्दस्य प्रयोगकुशलपयुक्तस्य कचित् तदवगमनस्वभावत्वात् , अर्थमात्रप्रतिपच्या प्रतारके तद्याथात्म्यानवगम इति चेत् , प्रयोगकुशलेन मनीषिणा प्रयुक्तस्य शब्दस्य कुत्रचित् स्वाभिधेयावबोधजनकत्वस्वभावस्याकामेनापि स्वीकारादितिभावः । ननु शब्दस्य तथास्वभावस्वीकारेण कस्यचित् प्रतारकस्य भवतु तदी
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy