________________
[६८] "स सर्वविद्यस्य" इत्यादौ सङ्केतभेदेन सर्वज्ञास्तित्वविरुद्धार्थप्रकाशनदर्शनात् अत्रापि विरुद्धार्थप्रकाशनस्यैषणीयत्वाद्विरुद्धार्थानुपपत्तेः सिद्धत्वादिति भावः । समाधत्ते-इतरेत्यादि ।
३८-( मूलम् ) इतरप्रकाशानुपपत्तेः, प्रदीपेन्दीवराक्तप्रकाशवदुपपत्तिरितिचेत् , न, अविशेषेण तत्प्रकाशनप्रसङ्गात् ,
यद्येवं तह-तरार्थप्रकाशनानुपपत्तिः स्यादेवेति भावः । ननु प्रदीपेन यथा स्वीयरक्ततायाः समीपस्थेन्दीवरसम्बन्धिन्या रक्तताया अपि प्रकाशन विधीयते तथा प्रकृतेऽपीतरप्रकाशनोपपत्तेने प्रागुक्तानुपपत्तिरित्याशङ्कते-प्रदीपेन्दीवरेत्यादि-समाधत्ते-अविशेषेणेत्यादिना-प्रदीपाद्यथा सामान्यत उभयसम्बन्धिन्या रक्ततायाः प्रकाशनन्तथाऽविशेषेणेतरार्थप्रकाशनप्रसङ्गः स्यादिति भावः । ननु प्रदीपेन्दीवररक्तप्रकाशनमदृष्टदोषादुत्पत्तुमर्हति न तावता प्रकृतेऽ. प्यविशेषेणेतरप्रकाशनप्रसक्तोऽदृष्टदोषाभावादित्याशङ्कते--अदृष्टेत्यादिना-समाधत्ते-नेत्यादिना
३९-(मूलम् ) अदृष्टदोषात् तत् तथा प्रकाशनमिति चेत्, न, इतरत्राप्यविधम्मप्रसङ्गात्, तदेवादृष्टदोषात् नेतरदिति निश्चायकप्रमाणाभावात् , अतीन्द्रियार्थत्वाद तत्साक्षात्कारिणश्वानभ्युपगमात् ।
अदृष्टदोषात् प्रदीपेन्दीवररक्तप्रकाशनमधिकृतवचने चादृष्टदोषाभावान्नाविशेषेणार्थप्रकाशनमित्यत्र विश्वासाभावप्रसङ्ग इति भावः । अविश्रम्भप्रसङ्गे हेतुमाह-तदेवादृष्टदोषादित्यादिना-प्रदीपेन्दीवररक्तप्रकाशोऽदृष्टदोषाद्भवति प्रकृते तु नेतरार्थप्रकाशनमित्याकारक