SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [ ६७ ] प्रदीपार्थिवद विशेषेण तदर्थप्रतिपभ्यसिद्धेः सङ्केतादनेकधा तदर्थोपलब्धेः, तत्स्वभावत्वादनेकार्थत्वाच्च तस्यादोष इतिचेत् न, तथाविरुद्धार्थानुपपत्तेः । वचनस्यास्यापौरुषेयत्वेऽप्यधिकारिभेदादधिकृतवचनभेदवत्तदर्थ भेदानामाशङ्कापत्त्याऽपौरुषेयत्वस्त्रीका रेऽपि दोषानुद्धार इतिभावः । अथ प्रदीपो यथा स्वात्मानमर्थ पदार्थान्तरं च प्रकाशयति तथेदमपि वचनं वाक्यार्थबोधं दृष्टश्रुतपदार्थसम्बन्धं च बोधयेदिति पूर्वपक्षी शङ्कते - प्रदीपार्थवदित्यादि - यथा प्रदीपादर्थविशेषस्य प्रकाशो न तथाऽधिकृतवचनादर्थविशेषस्य कस्यचिदवबोध इतिभावः । ननु कथमर्थविशेषस्य न भवेद्बोध इति तत्राह - सङ्केतेति - एकस्य शब्दस्यानेकस्मिन्नर्थे सङ्केतदर्शनाद्यथाऽनेकेषामर्थानामसति प्रकरणादिज्ञानेऽभिधयैव बोधो भवति तथाऽधिकृतवचनादप्यनेकधाऽर्थोपलब्धिसम्भवादिति भावः । न ननु तदर्थबोधकत्वस्वभावत्वादेकार्थत्वाच्चाधिकृतवचनस्य कश्चिद्दोष इत्याशङ्कते - तत्स्वभावेत्यादि - समाधत्ते - नेत्यादि । यदि तदर्थबोधकत्वस्वभावत्वमेकार्थत्ववाधिकृतवचनस्याभ्युपगम्येत तदा विरुद्धार्थबोधकत्वानुपपत्तिरितिभावः । ननु जायतामधिकृतवचनस्य विरुद्धार्थबोधकत्वं का क्षतिरितिचेत्तत्राह - दृश्यते इत्यादिना । ३७ - (मूलम् ) दृश्यते च ' स सर्वविद्यस्य इत्यादौ सङ्केतभेदेन तदास्तित्वविरुद्धार्थप्रकाशनमिति, नास्तित्वमेव तत्राविपरीतमिति चेत्, न, "
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy