SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ... [६६] पुरुषज्ञानाऽप्रामाण्यस्वीकारेण, अनादिवृद्धसम्प्रदाय:-अनादिवृद्धपरम्परावादी, प्रत्युक्त:-निरस्त: । निरासे हेतुमाह-सर्वेषामेवेति ३५-(मूलम् ) सर्वेषामेवात्र वस्तुन्यन्धतुल्यत्वात् , अधिकृतवचनादेवासौ विज्ञायत इतिचेत्, न, वाक्यार्थप्रतिपत्तावपि तनिश्चयानुपपत्तेः, लौकिकवाक्ये कचित्तद्भावेऽप्यर्थातथाभावदर्शनात् , तस्य पुरुषबुद्धिमभवत्वेन तदायत्तोऽर्थातथाभावो नैवमस्य अपौरुषेयत्वादितिचेत् । __सर्वेषामपि पूर्वपूर्वपुरुषाणामतीन्द्रिये स्वर्गादौ वस्तुन्यन्धतुल्यत्वादित्यर्थः । ननु “ अग्निहोत्रं जुहुयात् स्वर्गकामः” इतिवचनप्रामाण्यादेव दृष्टश्रुतयोस्तादृशः सम्बन्धः स्वीक्रियतां किमतीन्द्रियार्थद्रष्ट्रा सर्वज्ञेनेति शङ्कते-अधिकृतेत्यादि-समाधत्ते वाक्यार्थेत्यादि-आकाढा-योग्यताऽऽसत्ति-तात्पर्य्यज्ञानसमवहितपदार्थोपस्थित्या वाक्यार्थबोधसम्भवेऽपि तादृशसम्बन्धनिश्चयानुपपत्तेः । तत्र हेतुमाह लौकिकेत्यादि-लौकिकवाक्ये कुत्रचित् वाक्यार्थप्रतिपत्तावप्यर्थेऽवास्तविकत्व (प्रमात्मकज्ञानविषयत्वाभाव) दर्शनात् प्रकृतेऽपि सर्वज्ञस्वीकारमन्तरेण तन्निश्चयानुपपत्तिरितिभावः । ननु लौकिकवाक्यस्य पुरुषबुद्धिप्रभवत्वेन यथार्थज्ञानजनकत्वं मास्तु तस्य तदायत्तत्वात्, प्रकृते तु न तथा भवितुमर्हति तस्य वाक्यस्यापौरषेयत्वादित्याशङ्कते-तस्यपुरुषबुद्धीत्यादिना-समाधत्तेनेत्यादिना ३६-(मूलम् ) न, एवमप्यधिकृतभेदवत्तदर्थभेदाशङ्कापत्तेः, प्रदीपवत् स्वार्थप्रकाशनात् नापचिरितिचेत्, न,
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy