SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [६५] भवदापादितमर्थापत्तिगोचरातिक्रान्तत्वं न युक्तियुक्तम् , यतो हि यद्यपत्तिगोचरत्वमुपपन्नं स्यात्तदा तदतिक्रान्तत्वकथनमनुचितम , अस्ति च तत्रार्थापत्तिगोचरत्वमित्याशयेनाह-“ अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यादि-अयमाशय:-" अग्निहोत्रमित्यादौ दृष्टहवनादेरदृष्टस्वर्गादिफलकत्वकल्पनं तावदनुपपन्नं यावत्तयोः (हवनादिस्वर्गाद्योः) साध्यसाधनभावसम्बन्धज्ञाता कोऽपि न स्यात्, सति तादृशि पुरुषे तदुपदेशनादिद्वारेणान्योऽपि हवनादेः स्वर्गादिफलकत्वमभ्युपगच्छेत् स च तादृशस्तयोः सम्बन्धोऽतीन्द्रियार्थदर्शनं विना पुरुषेण ज्ञातुमशक्य एव अतीन्द्रियार्थदर्शनसमर्थस्यैव तादृशसम्बन्धज्ञानमुपपद्यत्ते, यश्चातीन्द्रियार्थद्रष्टा स एव सर्वज्ञ इति सर्वज्ञस्यार्थापत्तिगोचरत्वं श्रुतिपर्यालोचनतोऽस्त्येवेति भवदुक्तमप्रामाणिकम । ननु सर्वोऽपि स्वस्माप्राचीनात् पुरुषात्तयोस्तादृशं सम्बन्धं जानीयात् किं सर्वज्ञकल्पनयेत्याशङ्कते-अपरस्मादित्यादि । समाधत्ते-सोऽपीत्यादिना ३४-(मूलम् ) अपरस्मात् पुरुषात् इति चेत्, सोऽपि तेन तुल्यः नैवं जातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानपामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्मदायः प्रत्युक्तः । यस्मात्पुरुषात् तं सम्बन्धं जानीयात् सोऽपि पुरुषः सम्बन्धा. ज्ञात्रा पुरुषेण तुल्य एव, स्वर्गादिष्वतीन्द्रियेषु घस्तुषु ताशपुरुषस्य ज्ञानं रूपविशेषेष्वन्धानां ज्ञानमिव प्रमाणं न भषितुमहतीति सर्वज्ञोऽनायत्यापि स्वीकार्य एव भवताम् । एतेन-अपर
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy