________________
__ [६४] ननु कोऽसावविरुद्धविधिर्यस्य तेन विरोधेन सहावस्थाननियमाभाव इत्याकाङ्खायामाह-अविरुद्धश्चेति-वक्तृत्वादिनेत्यत्र तृतीयार्थः प्रयोज्यत्वन्तथा च वक्तृत्वादिप्रयोज्य: ज्ञानप्रकर्षः ज्ञानाधिक्यमितियावत् । एवञ्च हृद्गताशेषसंशयोच्छेदिन: पुरुषस्य सर्वज्ञस्य च ज्ञानप्रकर्षः साधारणो धर्मोऽवसेयः, तादृशसाधारणधर्मप्रयोज्य: “ तेन सदृशोऽसौ " इति सादृश्यप्रवृत्तिरवसेयेति ।। इति परमदार्शनिकाचार्यपुरन्दरश्रीहरिभद्रसूरिविरचितायां--- 'सर्वज्ञसिद्धौ' शास्त्रविशारद कविरत्न पूज्याचार्य देवश्रीविजयामृतसूरीश्वरकृतायां 'सर्वहिताऽऽख्यायां' व्याख्यायाम् 'उपमान-प्रमाणातिक्रान्तत्वरूपसर्वज्ञताप्रतिषेधपूर्वपक्षखण्डनाभिधं' चतुर्थ प्रकरणम् ॥
5. अर्थापत्तिगोचरातिक्रान्तताखण्डनम् उपमानगोचरातिक्रान्तत्वखण्डनानन्तरमवसरसङ्गत्यार्थापत्तिगोचरातिक्रान्तत्वं पूर्वपक्षिभिरापादितचरं निरस्तुमुपक्रमतेअर्थापत्तिगोचरेत्यादि ।
३३-(मूलम् ) अर्थापत्तिगोचरातिक्रान्तत्वं युक्त्यनुपपन्नमेव, “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादौ दृष्टस्य हवनादेः श्रुतस्य च स्वर्गादेरर्थस्य तत्साध्यसाधनसम्बन्धज्ञातारमन्तरेणानुपपत्तेः, अशक्यश्चायं पुरुषेण ज्ञातुपृतेऽतीन्द्रियार्थदर्शनात् ।