SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [६३] रोधाभावः-प्रत्यक्षविरोधाभावः, केन-किमात्मकेन हेतुना सिद्धो निष्पन्न इति वाच्यं वक्तव्यं भवता दृष्टविरोधापादकेनेति शेषः, एवञ्च त्वयापि दृष्टविरोधाभावो नोपपादयितुं शक्यत इति " यश्चोभयोः समो दोषः परीहारोऽपि तादृशः । नैकः पर्यनुयोक्तव्यस्तागर्थविचारणे” इतिन्यायान्न कश्चिदृष्टान्तदा न्तिकयोर्विशेष इतिभावः । ननु “ देवदत्ता न तीक्ष्णा" इत्यादिप्रतीतेस्तत्र दृष्टविरोधो दृश्यते भवतां को दृष्टविरोधः कथं वा ? “सर्वज्ञो नासर्वज्ञः" इत्यस्य “ सर्वज्ञः सर्वज्ञः” इत्यर्थकतया "घटो घट:" इतिवच्छाब्दबोधाजनकत्वेनाप्रतिबन्धकत्वादित्याशङ्कते - तद्भावोsपीति । तद्भावः-दृष्टविरोधभावः, दृष्टविरोधतेतियावत् समाधत्तेअविरुद्धेति । ३२-(मूलम् ) अविरुद्धविधेस्तेन विरोधेन सहावस्थानाभावनियमाभावतस्तत्सम्भवोपपत्तेः, अविरुद्धश्च ज्ञानप्रकर्षों वक्तृत्वादिनेति । विधिपदस्य कार्यपरकतया अविरुद्धविधे:-अविरुद्धकार्य्यस्य, तेन विरोधेन-दृष्टेन विरोधेन सह-सार्द्धम् अवस्थानाभावनियमाभावतः-अवस्थान न भवतीति नियमाभावात्, तत्सम्भवोपपत्ते:दृष्टविरोधसम्भवोपपत्तेरितिशब्दार्थः । अयमाशय:-यद्येष नियमो भवेद्यत् अविरुद्धविधेः फलतः साधारणधर्मस्य विरुद्धेनान्यतरेण सहावस्थानं नास्तीति तर्हि ज्ञानप्रकर्षस्य असर्वज्ञत्वविरोधिना सर्वज्ञत्वेन सहावस्थानमसंभवितं भवेत् स एव नास्तीति ज्ञानप्रकर्षस्य सर्वज्ञे सर्वज्ञत्वेन सहावस्थाने बाधकाभाव इति सङ्केपः ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy