SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [ ६२ ] ३० - ( मूलम् ) यथा पुरुषो वक्ता तथाऽयमपीत्यभ्युपगमात् एतत्साधर्म्यसिद्धया तत्रासर्वज्ञत्वस्यापि सिद्धिरिति चेत् न, - देवदत्तायामपि श्यामत्वसिद्धेः तैक्ष्ण्यादिभावप्रसङ्गात् । नन्वस्त्व सर्वज्ञ साधर्म्य प्रयोज्यतत्सादृश्यसिद्धया तत्रासर्वज्ञत्वस्यापि सिद्धिरिति शङ्कते - एतत्साधर्म्येति । समाधत्ते नेति । यद्यसर्वज्ञसाधर्म्यसिद्धयाऽसर्वज्ञत्वं स्वीक्रियते भवता तर्हि श्यामत्वात्मक साधर्म्य प्रयोज्यतैक्ष्ण्याभावोऽपि देवदत्तायामापद्येतेतिभावः । देवदत्तायाञ्च तैक्ष्ण्यादिभावो यथा न स्वीक्रियते तथा सर्वज्ञेऽप्यसर्वज्ञत्वादिकमिति भावः । ननु देवदत्तायां तैक्ष्ण्यादिभावापादनं सर्वथाऽयुक्तम् प्रत्यक्षविरोधात्. " देवदत्ता तीक्ष्णा न " इत्यादिबाधनिश्चयस्य प्रत्यक्षात्मकस्य विरोधिनः सत्त्वात्, तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकतायाः पूर्वमुक्तत्वादित्याशङ्कते - दृष्टविरोधेति । ३१ - ( मूलम् ) दृष्टविरोधादप्रसङ्ग इति चेत् इतरत्र तद्विरोधाभावः केन सिद्ध इति वाच्यम्, तद्भावोऽपि केन सिद्ध इति चेत् । दृष्टविरोधात् दृष्टेन प्रत्यक्षेण विरोधः सहानवस्थानादिलक्षणो eg विरोधस्तस्मात्, " दृष्टमनुमानमाप्त - वचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥” इतिसांख्यकारिकायां दृष्टपदस्य प्रत्यक्षार्थकत्वमवसेयम् । समाधत्ते - इतरत्रेति — इतरत्र - अन्यत्र सर्वज्ञ इति यावत् । तद्वि
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy