SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [६१] २८-(मूलम् ) नचोपमानोपमेययोः प्रसिद्धसाधारणधर्मातिरेकेण सर्वधर्मैरुपमानमत्तिः ।। उपमानोपमेययोश्चन्द्रमुखयोः प्रसिद्धाऽऽह्वादकत्वादिसाधारणधर्मातिरेकेण चन्द्रत्वाऽऽकाशगतत्वादिसर्वधर्मैरुपमानप्रवृत्तिरिति । सर्वधर्मप्रयोज्योपमानाप्रवृत्तिं दृष्टान्तेन समर्थयति-यथाशस्त्रीति । २९-(मूलम् ) यथा शस्त्री श्यामा देवदत्ता, तत्र हि साधारणश्यामत्वावच्छिन्नरूपतेव केवलं प्रतीयते नान्ये शस्त्रीगता धर्माः, तदध्यारोपे तु शस्त्रीरूपतैव स्यात् । इह चासर्वज्ञाः पुरुषा उपमानम् , उपमेयो विवक्षितः पुरुषः, कस्तयोः प्रसिद्धः साधारणो धर्म इति वाच्य, वक्तृत्वपुरुषत्वादिरितिचेत्, न, सिद्धसाध्यतापत्तेः ।। शस्त्रीदेवदत्तयोः प्रसिद्धो यः साधारणो धर्मः श्यामत्वम् तदवच्छिन्नरूपतैव प्रतीयते देवदत्तायां, न पुनरन्येऽपि शखीगता तैक्ष्ण्यादयो धर्मास्तत्र प्रतीयन्ते, तैक्ष्ण्याद्यात्मकसादृश्याध्यारोपे शस्त्रीरूपतैव देवदत्तायामापद्येत, प्रकृते चासर्वज्ञाः पुरुषा उपमानम् , उपमेयः पुरुषविशेषस्तयोः प्रसिद्धन केनचित् साधारणेन धर्मेण वाच्येन भवितव्यम् तद्धर्मप्रयोज्यैवासर्वज्ञसादृश्यसिद्भिरवसेया । ननु नैतावता तस्मिन् सर्वज्ञतासिद्धिः, वक्तृत्वपुरुषत्वादिना साधारणधर्मेणैव सादृश्यसिद्धौ तद्धर्मस्य च सर्वज्ञताप्रयोजकत्वाभाव इत्याशङ्कते-वक्तृत्वेति-समाधत्ते-नेति । वक्तृत्वपुरुषत्वादिकं न साधारणधर्मतया शक्यं स्वीकर्तुम् सिद्धस्य साध्यतापत्तेरिति । . सिद्धत्वमेव कथमित्याशकां वारयति-यथेति ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy