________________
[६०] लभ्यते इति समानताव्याधात इत्याशङ्कते-तद्वयवहारेति । तद्वयवहारे-अध्ययनादिब्राह्मण्याधिगमसंप्रदायव्यवहारे बाधाभावदर्शनात् -अबाधितत्वज्ञानात् , असमानम्-अतुल्यम् । समाधत्ते-नेतिइतरत्रापि-हृद्गताशेषसंशयोच्छेापलब्धसम्प्रदायेऽपि । उभयभावात्व्यवहारबाधाऽभावोभयभावात् ननु हृद्गताशेषसंशयोच्छेापलब्धसम्प्रदाये बाधारहितः कीदृशो व्यवहार इत्याशङ्कय समाधत्तेदृश्यतेचेति ।
२६-(मूलम् ) तदृश्यते च वेदाध्ययनादिवत्तन्नमस्कारस्थापनादिबोधारहितो व्यवहार इति ।
एवञ्चागृहीतगोगवयस्यापि जनस्य कृते गोरुपमानगोचरातिक्रान्तत्वाभाव इव सर्वज्ञस्यापि नोपमानगोचरातिक्रान्तत्वाभाव इत्येतन्निगमयति-अगृहीतेति ।
२७- (मूलम् ) अगृहीतगोगवयस्यापि गोरिव नोपमानगोचराक्रातिन्तत्वमेव, एतेनासर्वज्ञपुरुषसाधादसर्वज्ञत्वोपमानमेव तत्र युक्तमिति यदुच्यते परैस्तदपि प्रन्युक्तम् ।
ननु भवेदसर्वज्ञसादृश्यज्ञानमेवोपमानम् । असर्वज्ञपुरुषसाधात् असर्वज्ञत्वात्मकोपमानमेव तत्र समुचित इत्यसर्वज्ञसदृशः सर्वज्ञः इत्याकारकज्ञानेन । असर्वज्ञत्वात्मकतत्सादृश्यस्यसर्वज्ञेऽवगमादिति तस्मिन्नप्यसर्वज्ञत्वसिद्धथा सोऽप्यसर्वज्ञ एवेति परेषां मतमपाकरोतिएतेनेति । प्रत्युक्तिप्रकारमुपपादयति नचोपमानोपमेयेति । .