________________
[५९] इह-लोके, इदानीम्-सम्प्रति, कालदोषतः-कलियुगात्मककालप्रभावात्, तदनभ्युपगमात्-हृद्गताशेषसंशयपरिच्छेदिनोऽस्वीकारात् । ननु कालदोषत इदानीं तादृशपुरुषानभ्युपगमेऽपि तदानीन्तनं तदीयमस्तित्वं स्वीकृत्य सर्वज्ञसिद्धिरभिमता भवताम् परन्तु तदानीन्तनन्तदीयमस्तित्वमपि प्रमाणाभावाद सिद्धेव तत्कथं भवदभिलषितसिद्धिरित्याशङ्कते-तदेति । तदानीम्-सर्वज्ञावस्थानकाले (सः-हृद्गताशेषसंशयोच्छेदी) समाधत्ते-तदुपलब्धेति-तस्मात्हृद्गताशेषसंशयोच्छेदिनः सकाशात् उपलब्धः-समधिगतो यः संप्रदायो गुरुपरंपरा तस्य-अविच्छेदेन-विच्छेदाभावेन “स आसीदिति ज्ञायते” इत्येवं सम्बन्धः कार्य्यः । ननु सम्प्रदायाविच्छेदेन भूतकालिकतादृशपुरुषास्तित्वं साधनमनुपपन्नम् शुद्धसम्प्रदायाविच्छेदेनैव तत् साधयितुं शक्यम् सम्प्रदायशुद्धतायामेव च प्रामाण्यं नास्तीत्याशङ्कते-नसेति ।
२५-(मूलम् ) न स दुःसम्प्रदाय इत्यत्र किं प्रमाणमितिचेद्, ब्राह्मण्याधिगमसम्प्रदायेऽपि समान मेतत् , तद्वयवहारबाधाभावदर्शनादसमानमितिचेत्, न, इतरत्राप्युभयभावात् समानमेव ।
स:-तदुपलब्धसम्प्रदायः, दुःसम्प्रदायः-दुष्टः सम्प्रदायः, ननहीति । समाधत्ते-ब्राह्मण्येति-ब्राह्मण्याधिगमसम्प्रदाये-वेदाधि. गमगुरुपरम्परायाम्, अपि एतत्-दुःसम्प्रदायत्वे प्रमाणाभावापादन. मिदम् । समानम्-तुल्यम्, ब्राह्यण्याधिगमसम्प्रदायेऽपि तस्य पर्यनुयोगस्य तुल्यत्वादितिभावः । ननु ब्राह्मण्याधिगमसम्प्रदायस्यादुःसम्प्रदायत्वे अध्ययनादितद्वयवहारबाधाभावदर्शनं प्रमाणमुफ