________________
[ ५८ ] .
तथा च
सम्पूर्णवैयाकरणादयो ज्ञायन्ते इत्यत्रैव न किमपि मानमिति कथमसिद्धेन दृष्टान्तेन दाट्रन्तिकस्य सिद्धिरिति चेत्तदाह- सर्वत्रेति । सर्वत्र तेन प्रकारेण वैयाकरणादिव्यवहारदर्शनात, व्यवहार एव सर्वज्ञः सर्वज्ञपदवाच्यः इत्यत्रापि शक्तिमाहक इतिभावः । तथा व्यवहारोऽपि न भवतीति चेत्तत्राह - अन्यथेतिअन्यथा-तद्व्यवहारासिद्धौ सर्वज्ञोच्छेदप्रसङ्गात् ।
२३ - (मूलम् ) अब्राह्मणेन ब्राह्मणपरिज्ञानानुपपत्तेः, तत्स्वयं कथनस्य सर्वज्ञेऽपि तुल्यत्वात् हृताशेषसंशय परिच्छेद्यपीदानीं न कश्चिदुपलभ्यते इतिचेत्, सत्यमिदम् ।
-
yarssपत्तिरियमितिचेत् तत्राह - अब्राह्मणेनेति - अब्राह्मणोऽपि ब्राह्मणं न जानीयात् इत्यापत्तेरिष्टापत्तिकर्तुमशक्यत्वादितिभावः । ब्राह्मणः स्वयमब्राह्मणाय ब्राह्मणमात्मानं निवेदयेदितिचेदुच्यते तत्राह - तत्स्वयमिति तर्हि सर्वज्ञोऽप्यसर्वज्ञाय सर्वज्ञमात्मानं विनिवेदयेदिति सर्वज्ञपक्षेऽपि तुल्यत्वादितिभावः ।
अस्तु-हृद्गताशेषसंशयपरिच्छेदादिनोपलब्ध सर्वज्ञस्य तदन्योपलब्धौ तत्सादृश्यप्रतिपत्त्या तदन्यसादृश्यसिद्धया सर्वज्ञसिद्धि: सम्पादिता किन्तु सम्प्रति तादृशो जन एव कश्चिन्नोपलभ्यते इति सर्वमनुपपन्नमित्याह-हृद्गतेति । एतत्कालावच्छेदेन तदुपलम्भाभावेऽपीष्टापत्तिमभ्युपेत्याह - सत्यमिदमिति ।
२४ - ( मूलम् ) इहेदानीं कालदोषतस्तदनभ्युपगमात्, तदानीमासीदित्यपि कथं ज्ञायत इति चेत्, तदुपलब्धसम्प्रदायाऽविच्छेदेन ।