________________
[ ५७ ]
ननु यः स्वयम सर्वज्ञः स कथं सर्वज्ञं जानीयादिति नासर्वज्ञेन जनेन सर्वज्ञग्रहणं युक्तिसङ्गतमित्याशङ्कते - अ सर्वज्ञेनेति - समाधत्ते - नेति-हृदयगत समस्तसंशयोच्छेदवतः पुरुषस्य सर्वज्ञज्ञानमुपपद्यते इति भावः ।
२२ - ( मूलम् ) असम्पूर्ण वैयाकरणादिभिरप्यवगतकतिपयपृष्टसूत्रादिकथितयथावस्थितार्थतच्चैः सम्पूर्ण वैयाकरणादिग्रहणदशनात्, सर्वत्र तथा व्यवहारसिद्धेः, अन्यथा तदुच्छेदप्रसङ्गात् ।
हृद्द्वताशेषसंशयोच्छेदवतः कथं सर्वज्ञज्ञानमित्याशङ्कां समुचितदृष्टान्तोपस्थापनद्वारेण निरस्यति असम्पूर्णेति, अवगतं कतिपयानां कतिपयेभ्यो वा पृष्टानां सूत्रादीनां कथितं यथावस्थितमर्थतत्त्वं यैस्तैस्तथा । इदमत्र तत्त्वम् यथा केचिदधिगतव्याकरणतत्त्वा अपि स्वबुद्धिविषयतामनायातं किञ्चिदर्थतत्त्वं कांश्चिदन्यान् स्वावधिकोत्कर्षवतः पृच्छन्ति, ते च महाभागाः संशयापन्नस्य पृष्टस्य सूत्रादेर्यथावस्थितमर्थतत्त्वमस्खलितं प्रानिकान् प्रतिपादयन्ति, तदनन्तरं च ते प्रानिकास्तान् सम्पूर्णवैयाकरणान् मन्यन्ते, तथैव स्वज्ञानाविषयकमपि पदार्थं काँश्चिदनुयुज्य ततोऽभीप्सितं तत्त्वं यथायथमवबुध्य तान् प्रथमगणभृश्वरम तीर्थकृतमिव सर्वज्ञानवश्यं मन्येरन्निति । अयं भावः - -अल्पाध्ययनजनितव्याकरणादिविषयकपरिमितज्ञानवद्भिर्यथा तत्तच्छास्त्रविषयक विशिष्टज्ञानवन्तो वैयाकरणादयः प्रश्नादिद्वारा वैयाकरणादित्वेन ज्ञायन्ते परिचीयन्ते 'च तथैव हृदयगततत्तत्संशयोच्छेदवद्भिरभ्यज्ञैः समस्तपदार्थज्ञाता सर्वज्ञो ज्ञायेत परिचीयेत चेति । ननु तादृशैरसम्पूर्ण वैयाकरणादिभिः