________________
[५६] तदीयमेव मनः सर्वज्ञग्राहक युक्तम् , भवांस्तु न तदीयप्रवचनार्थावगन्तेति कुतो भवतस्तद्ग्राहकं प्रमाणमित्याह-प्रवचनेति-अथ सर्वप्रमातृणां तद्ग्राहकं प्रमाणं नास्तीतिमन्यते तदपि न समीचीनमित्याह-अत्रेति-अत्र-सर्वप्रमातॄणां तद्ग्राहकप्रमाणाभावे, न प्रमाणम्-प्रमाणं नास्तीत्यर्थः, तत्र हेतुमाह-तच्चेतसामिति-सर्वप्रमातृणां तद्ग्राहकप्रमाणाभावस्तदैव ग्रहीतुं शक्यो यदि सर्वप्रमातृसम्बन्धिनां चेतसां प्रत्यक्षं भवेत् तदेव तु नास्ति-तच्चेत. सामप्रत्यक्षत्वात् इति । सर्वप्रमातृचेतसां-प्रत्यक्षत्वस्वीकारे च सर्वज्ञाभावनिश्चयानुपपत्तिरित्याह- अन्यथेति अन्यथा-सर्वप्रमातृचेतसामप्रत्यक्षवाभावे प्रत्यक्षत्वस्वीकारे इति यावत् । तद्ग्राहक प्रमाणमेव नास्तीति निश्चया न स्यादिति । सकलसचेतनान्तःकरणसाक्षात्काराङ्गीकारे तु तथाविधविशिष्टानुभवमनुभवतो योगिनः पुनरतीन्द्रियार्थप्राप्तिस्वीकरणात् सर्वज्ञसद्भावसिद्धि व्याहता भवेदेवेति।
२१ ( मूलम् )-प्रधानादीनामप्ये वं प्रतिषेधानुपपत्तितः तत्सत्तापत्तेर्यकिश्चिदेतदितिचेत्, न, म्वतोऽदर्शनादतीन्द्रियोपलम्भकपुरुषवचनत औत्सुक्यानुपपत्तेश्च तत्पतिषेधसिद्धः, असर्व ज्ञेन तद्ग्रहणमपि न युक्त्युपपन्नमितिचेत्, न, हृद्गगताशेषसंशयच्छेदादिना तद्ग्रहणोपपत्तेः । __ प्रतिबन्दीमापाद्य प्रतिषेधयति प्रधानेत्यादिना-पूर्वोक्तप्रकारेण प्रकृतिप्रभृतीनामनभिमतानामपि तत्त्वानां प्रतिषेधो दुःशकः स्यात, तथा च तेषापि सत्ता दुर्निवारा भविष्यतीति प्राक्प्रतिपादितमखिलं निरर्थकमेवेतिचेत्, न, प्रधानादीनां प्रतिषेधो न दुःशकः, यतश्च तेषां स्वतो दर्शनं नास्ति, नचातीन्द्रियार्थदर्शनास्तान प्रतिपादयन्ति, नापि ते चित्तौत्सुक्यं जनयन्तीति ।