SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [५३] आरण्यकेन केनचित् ग्रामीणं प्रति “गोसदृशो गवयपदवाच्यः” इत्युक्ते पश्चाद् प्रामीणेन क्वचिदनादौ गतेन गवये दृप्टे समुत्पन्नं गोसादृश्यदर्शनमुपमितिकरणमभ्युपेयते, तदनु जात " गोसदृशो गवयपदवाच्यः” इत्यतिदेशवाक्यार्थस्मरणं व्यापारस्तदनु " गवयो गवयपदवाच्यः” इत्येवं जातस्य शक्तिग्रहस्य यथोपमितित्वं स्वीक्रियते तथा न सर्वज्ञः सर्वज्ञपदवाच्यः इत्येवमुपमितिर्नभवितुमर्हति । सर्वज्ञतत्सदृशयोरुमयोरप्यस्मदादिनाऽप्रत्यक्षत्वादिति तेषां मतं नो युक्तम् इत्याह-उपलब्धसर्वज्ञस्येति येन सर्वज्ञ उपलब्धस्तस्य हृदयावच्छिन्नसमस्तसंशयपरिच्छे. दादिभिस्तदन्यस्मिन् उपलब्धे सति " तत्सदृशः सर्वज्ञ "-इति तत्सादृश्यप्रतीतिसिद्धिः । अगृहीतगोगवयस्य जनस्य गव्यपि सादृश्यप्रतीत्यसिद्धेः, येन पुरुषेण गौर्गवयश्च न दृष्टौ “गोसदृशो गवयपदघाच्यः” गवयसदृशो गोपदवाच्यः इत्येवं गवये गोसादृश्यप्रतीतेः, गवि गवयसादृश्यप्रतीतेश्चाभावो भवति, नच तावता गोरुपमानगोचरातिक्रान्तत्वम्, अस्वीकारात्, एवमेव नागृहीतसर्वज्ञतत्सहशस्य जनस्य सादृश्यप्रतीत्यसिद्धेः सर्वज्ञस्योपमानगोचरातिक्रान्तत्वमितिभावः । इत्थञ्चोक्तप्रकारेण तत्सादृश्यप्रतीतिसिद्धेः सर्वज्ञस्योपमानगोचरातिक्रान्तत्वमपि प्रतिपक्षापादितं (न) समीचीनम् । ___ ननु सर्वमिदं तदैव सङ्गतं स्याद्यदि सर्वज्ञः केनचिदुपलभ्येत, नचोपलभ्यते तथाचोपमानगोचरातिक्रान्तत्वं दुर्वारमेवेति शङ्कतेन स केनचिदिति १६ (मूलम् )-न स केनचिद् गृह्यते इत्यसिद्ध, विकल्पानुपपत्तेः, तथाहि-किं प्रमाणेन न गृह्यते उता.
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy