SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [५२] अथोभयत्र न्यायमार्गतुल्यतायाः समानतायामपि वेदस्यैव प्रामाण्यं युक्तं नवागमस्येत्याशङ्कते तथापीत्यादिना। कृतसुरापानस्योन्मत्तस्यैवं तव वचनं प्रमाणं न पुन: प्रेक्षावतामितिभावः । उपसंहारमाह-एवमित्यादिना-एवम्-उक्तप्रकारेण । इतरेतगश्रयदोषानुपपत्ते:-आपादितस्यान्योन्याश्रयदोषस्य अनुपपत्तेरसंघटनाद्धे. तोश्चोदनानुष्ठानफलतयाऽऽगमात् सर्वज्ञ: सिद्ध इतिपूर्वोदीरितप्रकारेणाऽऽगममप्रमाणं वदन्तः पूर्वपक्षिणः परास्ता इतिभावः ॥१४॥ ___ इति सुविहिताप्रणी परमदार्शनिकाचार्यपुरन्दर श्री हरिभद्रसूरिविरचितायां मर्वज्ञसिद्धौ शाखविशारद-कविरस्न-पीयूषपाणि पूज्यपादाचार्यमहाराजश्री विजयामृतसूरीश्वरकृतायां सर्वहिताऽऽख्यायां व्याख्यायाम् आगमप्रमाणातिक्रान्तत्वरूपसर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनाभिध तृतीयं प्रकरणम् ॥ elfo १५ (मूलम् )-उपमानगोचरातिक्रान्तत्वमपि न न्यायसङ्गतम् , उपलब्धसर्वज्ञस्य हृदगताशेषसंशयपरिच्छेदादिना तदन्योपलब्धौ तत्सादृश्यप्रतीतसिद्धेः, अगृहीतगोगवयस्य गव्यप्यसिद्धेः । न चेतावता गोस्तद्गोचरातिक्रान्तत्वम्, अनभ्युपगमात् । . एवं प्रत्यक्षानुमानगोचरातिकान्तत्वं प्रतिपक्षिमण्डलेनापादित युक्तिततिभिर्निराकृत्य भगवान् उपमानगोचरातिक्रान्तत्वमपि निराकर्तुमुपक्रमते-उपमानगोचरेति
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy