________________
[५४] प्रमाणेन वेति वाच्यम् ? यद्यप्रमाणेन, सिद्धं साध्यते, तस्याप्रमाणेन ग्रहणानभ्युपगमात् ।
सः-सर्वज्ञः केनचित् जनेन न-गृह्यते-उपलभ्यते इति वः कथनमसिद्धम् तत्र कारणमाह-विकल्पानुपपत्तेरिति, विकल्पानुपपत्तिमेव दर्शयति-तथाहि-स तावदित्थं प्रष्टव्यः, स सर्वज्ञः किं 'प्रमाणेन नोपलभ्यते उताप्रमाणेन न गृह्यते वेति ?, तत्र यदि द्वितीय: पक्षस्तदा सिद्धसाधनं भवताम्, सर्वज्ञस्य अप्रमाणेनोपलम्भस्यास्वीकरणात् ।
१७ ( मूलम् ) अथ प्रमाणेन, किं तद्ग्राहकेणोतातद्ग्राहकेणेति ?, न तावत् तद्माह केण, तस्य तदग्रहणविरोधात् , तथाहि-तद्ग्राहक नच तद्गृह्णातीति विरुद्धमेतत् ।
अथ प्रथमः पक्षोऽर्थात् प्रमाणेन न गृह्यते स इत्युच्यते तत्रापि विकल्पद्वयम्-किं तद्ग्राहकेण प्रमाणेन स न गृह्यते, उतातग्राहकेण प्रमाणेन स न गृह्यते, इति, तत्र न तद्ग्राहकेण सः न गृह्यते तद्ग्राहकस्य प्रमाणस्य तद्ग्रहणेन विरोधात्, तग्राहकं प्रमाणं न च तद्गृह्णातीति विरुद्धमेतदयसेयम् ।।
१८ ( मूलम् )-अतद्ग्राहकाग्रहणे तु तदभावासिद्धिः, तदभावेऽपि घटादिभावसिद्धेः, तथाहि-न पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो नसन्त्येव घटादयः । .. यदि द्वितीयः पक्षोऽर्थात्-अतग्राहकेण प्रमाणेन स न गृह्यते इति, तदा तु सर्वज्ञस्याभावासिद्धिः, घटाग्राहकप्रमाणेन घटग्रहणा