SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [१] समानतेत्याशङ्कते-अन्याहन्मुखेत्यादिना: समाधत्ते-नेत्यादिनाजातिस्मरणातिशयेन यथा हिरण्यगर्भादौ वेदवक्तृत्वन्तथाऽऽगमोपदेशकाले केवलातिशयतोऽर्हत्यागमवक्तत्वं स्वीकतुं शक्यते, तस्मिन्नन्याहन्मुखाधीतत्वस्य प्रयोजकत्वं न स्वीकरणीयम । अन्यकालावच्छेदेन तत्रार्हत्यप्यन्यागमवक्तमुखाधीतत्त्वमस्त्येवेतिसमानताऽव्या. हताऽवसेया । ननु हिरण्यगर्भादौ वेदवक्तृत्वम्य तीर्थकृत्यागमवक्तृस्वस्य सत्त्वेनाऽऽगमस्य वेद भिन्नत्वादसमानतेत्याशङ्कते-अवेदेत्यादि -समाधत्ते-नेत्यादि-अहंदुक्ताऽऽगमे वेद भिन्नत्वमस्माभिरपि स्वीक्रियते, नहि स्वस्मिन् स्वसादृश्यसम्मतं कस्यचिदपि सादृश्यस्य भेदघटितत्वात् , एवञ्च वेदभिन्नेऽप्यागमे न्यायमार्गतुल्यतयोभयत्र समानमेवेतिभावः । ननु वेदागमयोर्भेदं स्वीकृत्य वेद भिन्ने आगमे कथं वेदीयन्यायमार्गतुल्यतायाः प्रतिपादनम् , न्यायमार्गतुल्यत्वाभावे च कथं समानमित्याशङ्कय समाधत्ते-अन्यथेत्यादि-यदि वेदभिन्न आगमे वेदीयन्यायमार्गतुल्यता भवतां नाभिमता तदा वेदस्याप्यनागमत्वात नागमे वेदेऽपि नास्मदुक्तन्यायानुसारित्वमित्यस्यास्माभिरपि वक्तुं शक्यत्वमवसेयम् ।। . अन्यथा-वेदभिन्न आगमे न्यायमार्गतुल्यताप्रतिपादनानिष्टत्वे यथाऽऽगमस्यावेदत्वन्तथा वेदस्याप्यनागमत्वं स्यादितिभावः । अथास्मदुक्तन्यायानुसारित्वाभावस्याऽऽगमे वक्तुं शक्यत्वात् अस्मदुक्तन्यायाननुसारित्वमेव भवदागमप्रामाण्ये दूषणमित्याशङ्कतेनास्मदुक्तेत्यादिना-समाधत्ते-वेदप्रामाण्येत्यादि । तथैव भवदुक्तन्यायाननुसारित्वादस्मदागमेऽप्रामाण्यन्तथैवास्मदागमोक्तन्यायाननुसारित्वाद् भवतां वेदेऽप्यप्रामाण्यमिति "यश्चोभयोः समो दोषः" इत्यादिन्यायेनैकतरत्र दोषोद्घाटनमनुचितमित्येकत्राक्तन्यायाननुसरणस्यापरत्राप्रामाण्याप्रयोजकत्वमिति भावः ।
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy